Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 19

31 Mantra
1/19
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
शर्मा॒स्यव॑धूत॒ꣳ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेतु। धि॒षणा॑सि पर्व॒ती प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒षणा॑सि पार्वते॒यी प्रति॑ त्वा पर्व॒ती वे॑त्तु ॥१९॥

शर्म॑। अ॒सि॒। अव॑धूत॒मित्यव॑ऽधूतम्। रक्षः॑। अव॑धूता॒ इत्यव॑ऽधूताः। अरा॑तयः। अदि॑त्याः। त्वक्। अ॒सि॒। प्रति॑। त्वा॒। अदि॑तिः। वे॒त्तु॒। धि॒षणा॑। अ॒सि॒। प॒र्व॒ती। प्रति॑। त्वा॒। अदि॑त्याः। त्वक्। वे॒त्तु॒। दि॒वः। स्क॒म्भ॒नीः। अ॒सि॒। धिषणा॑। अ॒सि॒। पा॒र्व॒ते॒यी। प्रति॑। त्वा॒। प॒र्व॒ती वे॒त्तु॒ ॥१९॥

Mantra without Swara
शर्मास्यवधूतँ रक्षोऽवधूताऽअरातयोदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु । धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्तु दिवः स्कम्भनीरसि धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥

शर्म। असि। अवधूतमित्यवऽधूतम्। रक्षः। अवधूता इत्यवऽधूताः। अरातयः। अदित्याः। त्वक्। असि। प्रति। त्वा। अदितिः। वेत्तु। धिषणा। असि। पर्वती। प्रति। त्वा। अदित्याः। त्वक्। वेत्तु। दिवः। स्कम्भनीः। असि। धिषणा। असि। पार्वतेयी। प्रति। त्वा। पर्वती वेत्तु॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शर्म) सुखहेतुः (असि) भवति। अत्र सर्वत्र व्यत्ययः (अवधूतम्) विनाशितम् (रक्षः) दुःखं निवारणीयम् (अवधूताः) निवारणीया=विचालिता हताः। अवेति विनिग्रहार्थीयः॥ निरु० १। ३॥ (अरातयः) अदानस्वभावाः=कृपणाः (अदित्याः) अन्तरिक्षस्य (स्वक् ) त्वग्वत् (असि) भवति (प्रति) क्रियार्थे (त्वा) तं यज्ञम् (अदितिः) यज्ञस्यानुष्ठाता यज्ञमानः। अदितिरिति पदनामसु पठितम्॥ निघं० ५॥ ५॥ इति यज्ञस्य ज्ञाता पालकार्थो गृह्यते (वेत्तु) जानातु (धिषणा) वाक् वेदवाणी ग्राह्या। धिषणेति वाङ्नामसु पठितम्॥ निघं० १। ११॥ धृष्णोति सर्वा विद्या यया सा। धृषेर्धिष् च संज्ञायाम्॥ उ० २। ८२॥ अनेनायं शब्दः सिद्धः। महीधरेण धिषणेदं पदं धियं बुद्धिं कर्म वा सनोति व्याप्नोतीति भ्रान्त्या व्याख्यातम् (असि) भवति (पर्वती) पर्वणं=पर्बहुज्ञानं विद्यतेऽस्यां क्रियायां सा पर्वती। अत्र संपदादित्वात् क्विप्। भूम्नि मतुप् (उगितश्चेति) ङीप् (प्रति) वीप्सार्थे (त्वा) तां ताम् (अदित्याः) प्रकाशस्य (त्वक्) त्वचति= संवृणोत्यनया सा (वेत्तु) जानातु (दिवः) प्रकाशवतः सूर्यादिलोकस्य (स्कम्भनीः) स्कम्भं=

प्रतिबद्धं नयतीति सा (असि) भवति (धिषणा) धारणावती द्यौः। धिषणेति द्यावापृथिव्योर्नामसु पठितम्॥ निघं० ३। ३०॥ (असि) अस्ति (पार्वतेयी) पर्वतस्य मेघस्य दुहितेव या सा पार्वतेयी। पर्वत इति मेघनामसु पठितम्॥ निघं० १। १०॥ पर्वतस्येयं घनपंक्तिः=पार्वती तस्यापत्यं दुहितेव पार्वतेयी वृष्टिः। स्त्रीभ्यो ढक्॥ अ० ४। १। १२०॥ अनेन ढक् (प्रति) इत्थं भूताख्याने (त्वा) तामीदृशीम् (पर्वती) प:=प्रशस्तं प्रापणं यस्यां सा। अत्र प्रशंसार्थे मतुप् (वेत्तु) जानातु॥ अयं मंत्र: श० १। २। १। १४–१७ व्याख्यातः॥१९॥
Essence
[हे मनुष्याः ! योऽयं यज्ञः--असि=अस्ति--तं वेत्तु=विदन्तु येन--पार्वतेयी धिषणऽदित्यास्त्त्वग्वद् विस्तार्यते येन--धिषणा प्राप्यते]

मनुष्यैर्यो विज्ञानेन सम्यक् सामग्रीं संपाद्य यज्ञोऽनुष्ठीयते, यश्च वृष्टि बुद्धिवर्धकोऽस्ति, सोऽग्निना मनसा च संसाधितः सूर्यप्रकाशं त्वग्वत् सेवते॥ १।१९॥
Subject
अथ यज्ञस्य स्वरूपमंगानि चोपदिश्यन्ते॥
Meaning of Anvay
हे मनुष्याः ! भवन्तो योऽयं यज्ञः शर्म=सुखदः सुखहेतुः असि भवति, अदितिः=नाशरहितो यज्ञस्याऽनुष्ठाता यजमानो [असि]=अस्ति, येन रक्षः=दुःखं (दुःखं) निवारणीयम् अवधूतम् विनाशितम्, अरातयः अदानस्वभावाः कृपणा अवधूताः=विनष्टा निवारणीया विचालिता हताः च भवन्ति। यो अदित्याः=अन्तरिक्षस्य पृथिव्याश्च [त्वक्]=त्वग्वद् असि=अस्ति भवति, त्वा=तं (तं) यज्ञं वेत्तु= विदन्तु।

येन विद्याऽऽख्येन यज्ञेन पर्वती पर्वणं पर=बहुज्ञानं विद्यतेऽस्यां क्रियायां सा पर्वती दिवः प्रकाशवतः सूर्यादिलोकस्य स्कम्भनीः स्कम्भं प्रतिबद्धं नयतीति सा पार्वतेयी पर्वतस्य=मेघस्य दुहितेव या सा पार्वतेयी, पर्वतस्येयं घनपङ्क्तिः पार्वती, तस्याऽपत्यं दुहितेव पार्वतेयी वृष्टि: धिषणा धारणा वेती द्यौः अदित्याः प्रकाशकस्य [त्वक्]=त्वग्वत् त्वचति=संवृणोत्यनया सा विस्तार्यते, त्वा=तं तामीदृशीं प्रतिवेत्तु= यथावज्जानन्तु।

येन सत्सङ्गत्याऽऽख्येन पर्वती=ब्रह्मज्ञानवती पः=प्रशस्तं प्रापणं यस्यां सा धिषणा वाक् वेद-

वाणी धृष्णोति सर्वा विद्या यया सा प्राप्यते, तमपि प्रतिवेत्तु=जानन्तु॥ १। १९॥
Meaning of Essence
पार्वतेयी=वृष्टिः। धिषणा=बुद्धिः। आदित्या:=सूर्यप्रकाशस्य।
Special
परमेष्ठी प्रजापतिः। अग्निः=भौतिकोऽग्निः॥ निचृद् ब्राह्मी त्रिष्टुप्। धैवतः॥