Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 18

31 Mantra
1/18
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- ब्राह्मी उष्णिक्,आर्ची त्रिष्टुप्,आर्ची पङ्क्ति, Swara- ऋषभः
Mantra with Swara
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। ध॒र्त्रम॑सि॒ दिवं॑ दृꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑। विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम्॥१८॥

अग्ने॑। ब्रह्म॑। गृ॒भ्णी॒ष्व॒। ध॒रुण॑म्। अ॒सि॒। अ॒न्तरि॑क्षम्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। ध॒र्त्रम्। अ॒सि॒। दिव॑म्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑। द॒धा॒मि॒। भ्रातृ॑व्यस्य। व॒धाय॑। विश्वा॑भ्यः। त्वा॒। आशा॑भ्यः। उप॑। द॒धा॒मि॒। चितः॑। स्थ॒। ऊ॒र्ध्व॒चित॒ इत्यू॑र्ध्व॒ऽचि॒तः॑। भृगू॑णाम्। अङ्गि॑रसाम्। तप॑सा। त॒प्य॒ध्व॒म् ॥१८॥

Mantra without Swara
अग्ने ब्रह्म गृभ्णीष्व धरुणमस्यन्तरिक्षन्दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युप दधामि भ्रातृव्यस्य बधाय । धर्त्रमसि दिवन्दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युप दधामि भ्रातृव्यस्य बधाय । विश्वाभ्यस्त्वाशाभ्यऽउप दधामि चित स्थोर्ध्वचितो भृगूणामङ्गिरसां तपसा तप्यध्वम् ॥

अग्ने। ब्रह्म। गृभ्णीष्व। धरुणम्। असि। अन्तरिक्षम्। दृꣳह। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। सजातवनीति सजातऽवनि। उप। दधामि। भ्रातृव्यस्य। वधाय। धर्त्रम्। असि। दिवम्। दृꣳह। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। सजातवनीति सजातऽवनि। उप। दधामि। भ्रातृव्यस्य। वधाय। विश्वाभ्यः। त्वा। आशाभ्यः। उप। दधामि। चितः। स्थ। ऊर्ध्वचित इत्यूर्ध्वऽचितः। भृगूणाम्। अङ्गिरसाम्। तपसा। तप्यध्वम्॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) परमेश्वर भौतिको वा (ब्रह्म) वेदम् (गृभ्णीष्व) ग्राहय गृह्णाति वा। सर्वत्र पक्षे व्यत्ययः। हृग्रहोर्भश्छन्दसीति हकारस्य भकारः (धरुणम्) धरति सर्वलोकान् यत्तत् तेजश्च (असि) अस्ति। अत्र पक्षे प्रथमार्थे मध्यमः (अन्तरिक्षम्) आकाशस्थान् पदार्थान्। अन्तरात्मस्थमक्षयं ज्ञानं वा। अन्तरिक्षं कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेष्वन्तरक्षयमिति वा॥ निरु० २। १०॥ (दृंह) दृढीकुरु करोति वा (ब्रह्मवनि) वेदं वनयति तम् (त्वा) त्वाम् (क्षत्रवनि) राज्यं वनयति तम् (सजातवनि) समाना जाता विद्याः समानं जातं राज्यं वा वनयति येन तम् (उपदधामि) धारयामि (धर्त्रम्) धरति यत् येन वा। यायुर्वाव धर्त्रं चतुष्टोमः। स आभिश्चतसृभिर्दिग्भिः स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धर्त्रम्। वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूमुपदधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति॥ श० ८।२। १। १६॥ अनेन प्रमाणेन धर्त्रशब्देन वायुरीश्वरश्च गृह्येते (असि) अस्ति वा (दिवम्) ज्ञानप्रकाशं सूर्य्यलोकं वा (दृंह) सम्यग्वर्धय, वर्धयति वा (ब्रह्मवनि) सर्वमनुष्यार्थं ब्रह्मणो वेदस्य विभाजितारम्। ब्रह्माण्डस्य मूर्त्तद्रव्यस्य प्रकाशकं वा (त्वा) त्वां तं वा (क्षत्रवनि) राजधर्मप्रकाशस्य विभाजितारं राजगुणानां दृष्टान्तेन प्रकाशयितारं वा (सजातवनि) समानान् जातान् वेदान् क्षत्रधर्मान् मूर्त्तान् जगत्स्थान् पदार्थान्वा वनयति=प्रकाशयति तम् (विश्वाभ्यः) सर्वाभ्यः (त्वा) त्वां तं वा (आशाभ्यः) दिग्भ्यः। आशा इति दिङ्नामसु पठितम्॥ निघं० १॥ ६॥ (उपदधामि) उपदधाति वा सामीप्ये धारयामि तेन पुष्णामि वा (चितः) चेतयन्ति=संजानन्ति ये ते चितः। अत्र वा शर्प्रकरणे खर्परे लोपो वक्तव्यः, इति वार्त्तिकेन विसर्जनीयलोपः (स्थ) भवथ भवन्ति वा (ऊर्ध्वचितः) ऊर्ध्वानुत्कृष्टगुणान् चेतयन्ति ते मनुष्याश्चितानि कपालानि वा (भृगूणाम्) भृज्जन्ति यैस्तेषाम् (अंगिरसाम्) प्राणानामंगाराणां वा। प्राणो वा अङ्गिराः॥ श० ६।५।२।३॥ अङ्गारेष्वंगिरा अङ्गारा अंकना अञ्चनाः॥ निरु० ३। १७॥ (तपसा) धर्मविद्याऽनुष्ठानेन तापेन तेजसा वा (तप्यध्वम्) तपन्तु तापयतु वा॥ अयं मंत्रः श० १। २। १। ९--१३ व्याख्यातः॥१८॥
Essence
[ हे अग्ने परमेश्वर! त्वं--अस्मास्वन्तरिक्षम्=अक्षयं विज्ञानं दृंह=वर्धय, अहं भ्रातृव्यस्य वधाय ब्रह्म

वनि क्षात्रवनि सजातवनि त्वोपदधामि ]

 

अत्र श्लेषालङ्कारः। ईश्वरेणेदमादिश्यते--भवन्तो विद्वदुन्नतये, मूर्खत्व विनाशाय, सर्वशत्रूणां निवारणेन, राज्य–वर्धनाय च वेदविद्यां गृह्णीयुः। .

 

[त्वं सर्वेषां लोकानां धर्त्रमसि,...त्वां सर्वव्यापकं ज्ञात्वा...उपदधामि]

योऽग्नेर्वृद्धिहेतुः, सर्वधारको वायुः, अग्निमय: सूर्य ईश्वरश्च स्थ=सन्ति तान् सर्वासु दिक्षु विस्तृतान्= व्यापकान् विदित्वा,

[यज्ञार्थं शिल्पविद्यार्थमुपरिचित=ऊर्ध्वचित:=कपालानि कला धारितवन्तः]

यज्ञसिद्धि विमानादिरचनं तानि चालियित्वा, दुःखानि निवार्य, [भ्रातृव्यस्य वधाय] शत्रून् विजयन्ताम् ॥१।१८॥
Subject
पुनरग्निशब्देनोक्तावावुपदिश्यते॥
Meaning of Anvay
हे अग्ने परमेश्वर! त्वं धरुणं धरति सर्वलोकान् यत्तत् तेजश्च असि। कृपयाऽस्मत्प्रयुक्तं ब्रह्म वेदं गृभ्णीष्व ग्राह्य, तथा अस्मास्वन्तरिक्षम्=अक्षयं विज्ञानं अन्तरात्मस्थमक्षयं ज्ञानं, वा दृंह= वर्धय दृढीकुरु।

अहं भ्रातृव्यस्य वधाय ब्रह्मवनि वेदं वनयति तं क्षत्रवनि राज्यं वनयति तं सजातवनि समाना जाता विद्या वनयति येन तं त्वा त्वाम् उपदधामि धारयामि।

हे सर्वधर्तर्जगदीश्वर ! त्वं सर्वेषां लोकानां धर्त्रं धरति यद् येन वा असि। कृपयाऽस्मासु दिवं=ज्ञानप्रकाशं दृंह सम्यग्वर्धय। अहं भ्रातृव्यस्य वधाय ब्रह्मवनि सर्वमनुष्यार्थ ब्रह्मणो=वेदस्य विभाजयितारं क्षत्रवनि राजधर्मप्रकाशस्य विभाजयितारं सजातवनि समानान् जातान् वेदान् क्षत्रधर्मान् वनयति प्रकाशयति तं त्वा=त्वामुपदधामि सामीप्ये धारयामि तेन पुष्णामि वा। त्वां सर्वव्यापकं ज्ञात्वा विश्वाभ्यः सर्वाभ्य आशाभ्यः दिग्भ्य उपदधामि सामीप्ये धारयामि तेन पुष्णामि वा।

हे मनुष्याः ! यूयमथैवं विदित्वा चितः चेतयन्ति=संजानन्ति ये ते ऊर्ध्वचितः (कपालानि) ऊर्ध्वानुत्कृष्टगुणान् चेतयन्ति ते मनुष्याः कृत्वा भृगूणाम् भृज्जन्ति यैस्तेषाम् अंगिरसाम् प्राणानां तपसा धर्मविद्याऽनुष्ठानेन तापेन तप्यध्वं=यथा तपन्तु तथा तापयत तापयत। इत्येकोऽन्वयः॥

द्वितीयान्वयमाह--हे विद्वन् ! येनाऽग्निना धरणं धरति सर्वलोकान् यत्तत् तेजश्च ब्रह्म वेदम् अन्तरिक्षम् आकाशस्थान् पदार्थान् गृह्यते दह्यते च, तं त्वं होमाऽर्थं शिल्पविद्यासिद्धार्थं गृभ्णीष्व ग्राहय दृंह दृढीकुरु च। तथैवाहमपि भ्रातृव्यस्य वधाय [त्वा] तं ब्रह्मवनि वेदं वनयति तं क्षत्रवनि राज्यं वनयति तं सजातवनि समानं जातं राज्यं वनयति येन तम् उपदधामि धारयामि। एवं सोऽग्निर्धत्तः (धारितः) सन् सुखमुपदधाति।

एवं यो वायुर्धर्त्रं=सर्वलोकधारको धरति यत् येन वा असि अस्ति, दिवं सूर्यलोकं दृंहति तमहं यथा भ्रातृव्यस्य वधाय ब्रह्मवनि सर्वमनुष्यार्थं ब्रह्माण्डस्य मूर्त्तद्रव्यस्य प्रकाशकं क्षत्रवनि राजगुणानां दृष्टान्तेन प्रकाशयितारं सजातवनि मूर्तान् जगत्स्थान् पदार्थान् वनयति प्रकाशयति तम् उपदधामि उपदधाति तथैव त्वमप्येतं तस्मै प्रयोजनायोपदृंह वर्धय।

 हे शिल्पविद्यां चिकीर्षो विद्वन् ! येन वायुना पृथिवी द्यौः=सूर्यलोकश्च धार्यते दृह्यते च तं त्वं जीवनार्थं शिल्पविद्यायै च धारय दृंह वर्धय च। ब्रह्मवनि इत्यादि पूर्ववत्।

हे मनुष्याः ! यथाऽहं वायुविद्यावित् त्वा=तम् ! अग्निं वायुं च विश्वाभ्यः सर्वाभ्य अशाभ्यो दिग्भ्य उपदधामि सामीप्ये धारयामि तेन पुष्णामि वा तथैव यूयमप्युपधत्त।

यज्ञार्थं=शिल्पविद्यार्थमुपरि चितः=ऊर्ध्वचितः=कपालानि, चितानि कपालानि, कला धारितवन्तः सन्तो भृगूणां भृज्जन्ति यैस्तेषाम् अङ्गिरसां अंगाराणां तपसा तेजसा तप्यध्वम्=तापयत च [इति द्वितीयः]॥ १।१८॥
Meaning of Essence
अन्तरिक्षम्=वेदविद्याम्। ब्रह्मवनि=विद्वदुन्नतिम्, मूर्खत्वविनाशम्। क्षत्रवनि= राज्यवर्धनम्। भ्रातृव्यस्य=शत्रो:। वधाय=निवारणाय। धर्त्रम्=सर्वधारको वायुः।
Special
परमेष्ठी प्रजापतिः। अग्निः=परमेश्वरो भौतिकोऽग्निश्च॥ पूर्वस्य ब्राह्मी उष्णिक्। ऋषभः स्वरः। धर्त्रमसीति मध्यस्यार्च्ची त्रिष्टुप् छन्दः। धैवतः स्वरः। विश्वाभ्य इत्युत्तरस्यार्ची पंक्तिश्छन्दः। पंचमः स्वरः॥