Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 16

31 Mantra
1/16
Devata- वायुः सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्,विराट् गायत्री, Swara- षड्जः
Mantra with Swara
कु॒क्कु॒टोऽसि॒ मधु॑जिह्व॒ऽइष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यꣳ स॑ङ्घा॒तꣳ स॑ङ्घातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूत॒ꣳ रक्षः॒ परा॑पूता॒ अरा॑त॒योऽप॑हत॒ꣳ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑॥१६॥

कु॒क्कु॒टः। अ॒सि॒। मधु॑जिह्व॒ इति॒ मधु॑ऽजिह्वः। इष॑म्। ऊर्ज्ज॑म्। आ। वद॒। त्वया॑। व॒यं। सं॒घा॒तम् सं॑घात॒मि॑ति संघा॒तꣳसं॑घातम्। जे॒ष्म॒। व॒र्षवृद्ध॒मिति व॒र्षऽवृद्ध॑म्। अ॒सि॒। प्रति। त्वा॒। व॒र्षवृ॑द्ध॒मिति व॒र्षऽवृ॑द्धम्। वे॒त्तु॒। परा॑पूत॒मिति॒। परा॑ऽपूतम्। रक्षः॑। परा॑पूता॒ इति॒ परा॑ऽपूताः। अरा॑तयः। अप॑हत॒मित्यप॑ऽहतम्। रक्षः॑। वा॒युः। वः॒। वि। वि॒न॒क्तु दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छिद्रेण। पा॒णिना॑ ॥१६॥

Mantra without Swara
कुक्कुटो सि मधुजिह्वऽइषमूर्जमावद त्वया वयँ सङ्धातँसङ्धातञ्जेष्म वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्तु परापूतँ रक्षः परापूताऽअरातयो अपहतँ रक्षो वायुर्वो वि विनक्तु देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना ॥

कुक्कुटः। असि। मधुजिह्व इति मधुऽजिह्वः। इषम्। ऊर्ज्जम्। आ। वद। त्वया। वयं। संघातम् संघातमिति संघातꣳसंघातम्। जेष्म। वर्षवृद्धमिति वर्षऽवृद्धम्। असि। प्रति। त्वा। वर्षवृद्धमिति वर्षऽवृद्धम्। वेत्तु। परापूतमिति। पराऽपूतम्। रक्षः। परापूता इति पराऽपूताः। अरातयः। अपहतमित्यपऽहतम्। रक्षः। वायुः। वः। वि। विनक्तु देवः। वः। सविता। हिरण्यपाणिरिति हिरण्यऽपाणिः। प्रति। गृभ्णातु। अच्छिद्रेण। पाणिना॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कुक्कुटः) कुकं=परद्रव्यादातारं चोरं शत्रुं वा कुटति येन स यज्ञः (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (मधुजिह्वः) मधुरगुणयुक्ता जिह्वा=ज्वाला प्रयुज्यते यस्मिन् सः (इषम्) अन्नादिपदार्थसमूहम्। इषमित्यन्ननामसु पठितम्॥ निघं० १७॥ (ऊर्ज) विद्यादिपराक्रममनुत्तमरसं वा (आ) क्रियायोगे (वद) उपदिश (त्वया) परमेश्वरेण विदुषा वीरेण वा सह संगत्य (संघातं संघातम्) सम्यग्घन्यन्ते जना यस्मिन् तं संग्रामम्। संघात इति संग्रामनामसु पठितम्॥ निघं० २। १७॥ अत्र वीप्सायां द्विरुक्तिः (जेष्म) जयेम। अत्र लिङर्थे लुङ्। अड्वृद्ध्यभावश्च (वर्षवृद्धम्) शस्त्रास्त्राणां वर्धयितारम् (असि) भवति (प्रति) क्रियायोगे (त्वा) त्वां तं यज्ञं वा (वर्षवृद्धम्) वृष्टेर्वर्धकं यज्ञम् (वेत्तु) जानातु (परापूतम्) परागतं पूतं=पवित्रत्वं यस्मात्तत् (रक्षः) दुष्टस्वभावो मूर्खः (परापूताः) परागतः पूतः=पवित्रस्वभावो येभ्यस्ते (अरातयः) परपदार्थग्रहीतारः शत्रवः (अपहतम्) अपहन्यते यत् तत् (रक्षः) दस्युस्वभावः (वायुः) योऽयं भौतिको वाति (वः) तान् हुतान् परमाणुजलादिपदार्थान् (वि) विशेषार्थे (विनक्तु) वेचयति वेचयतु वा। अत्राद्ये पक्षे लडर्थे लोडन्तर्गतो ण्यर्थश्च (देवः) प्रकाशस्वरूपः (सविता) वृष्टिप्रकाशद्वारा दिव्यगुणानां प्रसव हेतुः (हिरण्यपाणिः) हिरण्यं=ज्योतिः पाणिर्हस्तः किरणव्यवहारो वा यस्य सः। ज्योतिर्हि हिरण्यम्॥ श०। ४ ३। १। २१॥ (प्रतिगृभ्णातु) प्रतिगृह्णाति। अत्र हृग्रहोश्छन्दसि हस्य भत्वं वक्तव्यम्॥ अ०। ५। २। ३२॥ इति हकारस्य स्थाने भकार:, लडर्थे लोट् च (अच्छिद्रेण) छिद्ररहितेनैकरसेन (पाणिना) किरणसमूहेन व्यवहारेण॥ अयं मंत्रः श०। १। १। ४। १८–२४ व्याख्यातः॥ १६॥
Essence
[ (१) अयं यज्ञो--सदैवानुष्ठेयः, (२) वयं संघातं संघातमाजेष्म, (३) सर्वो मनुष्यो वर्षवृद्धं प्रतिवेत्तु, (४) परापूतं रक्षः परापूता अरातयः--सदैव कार्यम्, (५) सविता देवः (वः) तान् (विविनक्तु)=विविनक्ति= पृथक्करोति, (६) वायुः--पदार्थकणान् [प्रतिगृभ्णातु]=प्रतिगृभ्णाति]

अत्र श्लेषालंकारः॥ ईश्वरः सर्वान् मनुष्यानाज्ञापयति--(१) मनुष्यैर्यज्ञानुष्ठानं (२) संग्रामे दुष्टशत्रूणां विजयो (३) गुणज्ञानं विद्यावृद्धसेवनं (४) दुष्टानां मनुष्याणां दोषाणां वा निराकरणं (५) सर्वपदार्थच्छेदकोऽग्निः सूर्यो वा (६) तथा--सर्वपदार्थधारको वायुश्चास्तीति विज्ञानं,

[परमेश्वरो विद्वान् मनुष्यश्च--सर्वा विद्या विविनक्तु, कृपया संप्रीत्या चैतौ वः=युष्मानानन्दकरणाय प्रतिगृह्णीतः]

" परमेश्वरोपासनां विद्वत्समागमं च कृत्वा सर्वा विद्याः प्राप्य सदैव सर्वार्था सुखोन्नतिः ॥१। १६॥

 

 
Subject
देवो वः सवितेत्यस्य ऋषिः स एव। सविता=सूर्यः, देवता। विराड् गायत्री छन्दः।
पुनः स यज्ञः कीदृशोऽस्तीत्युपदिश्यते॥
Meaning of Anvay
यतोऽयं यज्ञो मधुजिह्वः मधुरगुणयुक्ता जिह्वा=ज्वाला प्रयुज्यते यस्मिन् सः, कुक्कुटः कुकं=परद्रव्यादातरं चोरं शत्रुं वा कुटति येन स यज्ञः, असि=अस्ति, इषम् अन्नादिपदार्थसमूहम् ऊर्जं विद्यादिपराक्रममनुत्तमरसं वा च प्रापयति, तस्मात्--स सदैवानुष्ठेयः।

हे विद्वन् ! त्वमस्य त्रिविधस्य यज्ञस्यानुष्ठानस्य गुणानां च वेदितासि, तस्मात्--प्रतिवद=प्रत्यक्ष- मुपदिश, यतो वयं त्वया परमेश्वरेण, विदुषा, वीरेण वा सह संगत्य (सह) संघातं संघातमाजेष्म=सर्वान् संग्रामान् विजयेमहि (संघातं संघातं=सम्यग्घन्यन्तेजना यस्मिन् तं संग्रामम्, आजेष्म=जयेम)।

सर्वो मनुष्यो वर्षवृद्धं शस्त्रास्त्राणां वर्धयितारं त्वा=त्वां तं (त) यज्ञं वा वर्षवृद्धम् वृष्टेर्वर्धकं यज्ञं प्रतिवेत्तु जानातु।

एवं कृत्वा सर्वैर्जनैः परापूतं परागतं पूरं=पवित्रत्वं यस्मात् तत् रक्षः दुष्टस्वभावो मूर्खः, परापूताः परागतः पूतः=पवित्रस्वभावो येभ्यस्ते अरातयः परपदार्थग्रहीतारः शत्रवः, अपहतम् अपहन्यते यत् तत् रक्षः दस्युस्वभावः, सदैव कार्यम्।

 यथाऽयं हिरण्यपाणिः हिरण्यं=ज्योतिः, पाणिः=हस्तः किरणव्यवहारो वा यस्य सः, वायुः योऽयं भौतिको वाति अच्छिद्रेण छिद्ररहितेन=एकरसेन पाणिना किरणसमूहेन व्यवहारेण यज्ञे संसारेऽग्निना सूर्येण विच्छिन्नान् पदार्थकणान् [प्रतिगृभ्णातु]=प्रतिगृभ्णाति प्रतिगृह्णाति।

यथा च हिरण्यपाणिः हिरण्यं=ज्योतिः पाणिः=हस्तः किरणव्यवहारो वा यस्य सः, सविता वृष्टिप्रकाश द्वारा दिव्यगुणानां प्रसवहेतुः देवः प्रकाशस्वरूपः [वः]=तान् तान् हुतान् परमाणुजलादिपदार्थान् [विविनक्तु]=विविनक्ति=पृथक्करोति विशेषं वेचयति, वेचयतु वा तथैव परमेश्वरो विद्वान् मनुष्यश्चाच्छिद्रेण छिद्ररहितेन=एकरसेन पाणिना किरणसमूहेन व्यवहारेण सर्वा विद्या विविनक्तु विशेषं वेचयतु, प्रतिगृभ्णातु प्रतिगृह्णाति, तथैव कृपया संप्रीत्या चैतौ वः=युष्मानानन्दकरणाय प्रतिगृह्णीतः॥ १। १६॥
Special
परमेष्ठी प्रजापतिः। वायुः=भौतिको वायुः॥ स्वराड् ब्राह्मी त्रिष्टुप् छन्दः। धैवतः स्वरः॥