Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 15

31 Mantra
1/15
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् जगती,याजुषी पङ्क्ति, Swara- निषादः
Mantra with Swara
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद् ग्रा॑वासि वानस्प॒त्यः सऽइ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व। हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑॥१५॥

अ॒ग्नेः। त॒नूः। अ॒सि॒। वा॒चः। वि॒सर्ज॑न॒मिति॑ वि॒ऽसर्ज॑नम्। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये। त्वा॒। गृ॒ह्णा॒मि॒। बृ॒हद्ग्रा॒वेति॑ बृ॒हत्ऽग्रा॑वा। अ॒सि॒। वा॒न॒स्प॒त्यः। सः। इ॒दम्। दे॒वेभ्यः॑। ह॒विः। श॒मी॒ष्व॒। श॒मि॒ष्वेति॑ शमिष्व। सु॒शमीति॑ सु॒ऽशमि॑। श॒मी॒ष्व॒। श॒मि॒ष्वेति॑ शमिष्व। हवि॑ष्कृत्। हविः॑कृ॒दिति॒ हविः॑कृत्। आ। इ॒हि॒। हवि॑ष्कृत्। हविः॑कृ॒दिति॒ हविः॑ऽकृत्। आ। इ॒हि॒ ॥१५॥

Mantra without Swara
अग्नेस्तनूरसि वाचो विसर्जनन्देववीतये त्वा गृह्णामि बृहद्ग्रावासि वानस्पत्यः स इदन्देवेभ्यो हविः शमीष्व सुशमि शमीष्व हविष्कृदेहि हविष्कृदेहि ॥

अग्नेः। तनूः। असि। वाचः। विसर्जनमिति विऽसर्जनम्। देववीतय इति देवऽवीतये। त्वा। गृह्णामि। बृहद्ग्रावेति बृहत्ऽग्रावा। असि। वानस्पत्यः। सः। इदम्। देवेभ्यः। हविः। शमीष्व। शमिष्वेति शमिष्व। सुशमीति सुऽशमि। शमीष्व। शमिष्वेति शमिष्व। हविष्कृत्। हविःकृदिति हविःकृत्। आ। इहि। हविष्कृत्। हविःकृदिति हविःऽकृत्। आ। इहि॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नेः) भौतिकस्य (तनूः) शरीरवत्तस्य संयोगेन विस्तृतो यज्ञः (असि) भवति। अत्र सर्वत्र पुरुषव्यत्ययः (वाचः) वेदवाण्याः (विसर्जनम्) यजमानेन होतृभिश्च हविषस्त्यागो मौनं वा (देववीतये) देवानां=विदुषां दिव्यगुणानां वा वीतिर्ज्ञानं प्रापणं प्रजनं व्याप्तिः प्रकाशः, अन्येभ्य उपदेशनं विविधभोगो वा यस्यां तस्यै। वी गतिव्याप्तिप्रजनकांत्यसनखादनेषु (त्वा) तमिमं सम्यक् शोधितं हवि:समूहम् (गृह्णामि) स्वीकरोमि (बृहद्ग्रावा) बृहच्चासौ ग्रावा च सः (असि) अस्ति (वानस्पत्यः) यो वनस्पतेर्विकारस्तं हविःसंस्कारार्थम् (सः) त्वं यजमानः (इदम्) यत् प्रत्यक्षं हुतं तत् (देवेभ्यः) विद्वद्भ्यो दिव्यगुणेभ्यो वा (हविः) संस्कृतं सुगंध्यादियुक्तं द्रव्यम् (शमीष्व) दुःखनिवृत्तये सुखसम्पादनार्थं कुरुष्व। शमु उपशमे इत्यस्माद्बहुलं छन्दसीति श्यनो लुक्। तुरुस्तुशम्यमः०॥ अ०७। ३।९५॥ इतीडागमः। महीधरेणात्र शपो लुगित्यशुद्धं व्याख्यातम्। (सुशमि) सुष्ठु दुःखं शमितुं शीलं धर्मः पदार्थानां साधुकरणं वा यस्य तत्। शमित्यष्टा०॥अ०३।२।१४१॥ अनेन शमेर्घिनुण्। इदमपि पदमुवटमहीधराभ्यामन्यथैव व्याख्यातम् (शमीष्व) पुनरुच्चारणं हविषोऽत्यन्तसंस्कारद्योतनार्थम् (हविष्कृत्) हविः करोति अनया वेदवाण्या सा हविष्कृद्वाक् (एहि) अध्ययनेनैवैति प्राप्नोति (हविष्कृत्) अत्र यज्ञसंपादनाय ब्राह्मणक्षत्रियवैश्यशूद्राणां चतुर्विधा वेदाध्ययनसंस्कृता सुशिक्षिता वाग् गृह्यते॥ अयं मंत्रः श० १। १। ४। ८-१७ व्याख्यातः॥१५॥
Essence
[अहं यदिदं [अग्नेः] [तनूः] [वाचः] [विसर्जनम्] देवेभ्यः [असि] तं देववीतये गृह्णामि; हे विद्वन्! स त्वं देवेभ्यः--सुशमि तद्धविः शमीष्व]

यदा मनुष्या वेदादिशास्त्रद्वारा यज्ञक्रियां फलं च विदित्वा सुसंस्कृतेन हविषा यज्ञं कुर्वन्ति तदा स सुगन्ध्यादि द्रव्यहोमद्वारा परमाणुमयो भूत्वा, वायौ वृष्टिजले च विस्तृतः सन्, सर्वान् पदार्थानुत्तमान् कुर्वन् दिव्यानि सुखानि सम्पादयति।%3
Subject
पुनः स यज्ञः कीदृशो भवतीत्युपदिश्यते॥
Meaning of Anvay
अहं सर्वो जनो यस्य हविषः संस्काराय बृहद्ग्रावा बृहच्चासौ ग्रावा च सः, असि=भवति, वानस्पत्यः यो वनस्पतेर्विकारस्तं हविःसंस्कारार्थ च, यदिदं यत् प्रत्यक्षं हुतं तत् [अग्नेः] भौतिकस्य [तनूः] शरीरवत्तस्य संयोगेन विस्तृतो यज्ञः [वाचः] वेदवाण्याः [विसर्जनम्] यजमानेन होतृभिश्च हविषस्त्यागो मौनं वा देवेभ्यः विद्वद्भ्यो दिव्यगुणेभ्यो वा [असि] भवति तं देववीतये देवानां=विदुषां दिव्यगुणानां वा वीतिः=ज्ञानं, प्रापणं, प्रजनं, व्याप्तिः, प्रकाशः, अन्येभ्य उपदेशनं, विविधभोगो वा यस्यां तस्यै, गृह्णामि स्वीकरोमि।

हे विद्वन्ः ! स त्वं (त्वं) यजमानः देवेभ्यः=विद्वद्भ्यः दिव्यगुणेभ्यो वा सुशमि सुष्ठु दुःखं शमितुं शीलं, धर्मः, पदार्थानां साधुकरणं वा यस्य तत्, तद्धविः संस्कृतं सुगन्ध्यादियुक्तं द्रव्यं शमीष्व दुःखनिवृत्तये सुखसम्पादनार्थं कुरुष्व शमीष्व पुनरुच्चारणं हविषोऽत्यन्तसंस्कारद्योतनार्थम्।

ये मनुष्या वेदादीनि शास्त्राणि पठन्ति पाठयन्ति च तानियं वाग् "हविष्कृत् हविः करोति अनया वेद- वाण्या सा हविष्कृद्वाक् एहि अध्ययनेनैवैति=प्राप्नोति, हविष्कृत् अत्र यज्ञसम्पादनाय ब्राह्मणक्षत्रियवैश्यशूद्राणां चतुर्विधा वेदाध्ययनसंस्कृता सुशिक्षिता वाग् गृह्यते एहि अध्ययनेनैवैति= प्राप्नोति' इत्याह॥१।१५॥