Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 14

31 Mantra
1/14
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् जगती, Swara- निषादः
Mantra with Swara
शर्मा॒स्यव॑धूत॒ꣳ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु। अद्रि॑रसि वानस्प॒त्यो ग्रावा॑सि पृ॒थुबु॑ध्नः॒ प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु॥१४॥

शर्म॑। अ॒सि॒। अव॑धूत॒मित्यव॑ऽधूतम्। रक्षः॑। अव॑धूता॒ इत्यव॑धूताः। अरा॑तयः। अदि॑त्याः। त्वक्। अ॒सि॒। प्रति॑। त्वा॒। अदि॑तिः। वे॒त्तु॒। अद्रिः॑। अ॒सि॒। वा॒न॒स्प॒त्यः। ग्रावा॑। अ॒सि॒। पृ॒थुबु॑ध्न॒ इति॑ पृ॒थुबु॑ध्नः। प्रति॑। त्वा॒। अदि॑त्याः। त्वक्। वे॒त्तु॒ ॥१४॥

Mantra without Swara
शर्मास्यवधूतँ रक्षोवधूताऽअरातयोदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु । अद्रिरसि वानस्पत्यो ग्रावासि पृथुबुध्नः प्रति त्वादित्यास्त्वग्वेत्तु ॥

शर्म। असि। अवधूतमित्यवऽधूतम्। रक्षः। अवधूता इत्यवधूताः। अरातयः। अदित्याः। त्वक्। असि। प्रति। त्वा। अदितिः। वेत्तु। अद्रिः। असि। वानस्पत्यः। ग्रावा। असि। पृथुबुध्न इति पृथुबुध्नः। प्रति। त्वा। अदित्याः। त्वक्। वेत्तु॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शर्म) सुखकारकं गृहम्। शर्म इति गृहनामसु पठितम्॥ निघं०। ३। ४॥ (असि) भवति। अत्र सर्वत्र व्यत्ययः (अवधूतम्) दूरीकृतं=विचालितम् (रक्षः) दुष्टस्वभावो जन्तुः (अवधूताः) दूरीभूताः (अरातयः) दानशीलतारहिताः शत्रवः (अदित्याः) पृथिव्याः। अदितिरिति पृथिवीनामसु पठितम्॥ निघं० १।१॥ (त्वक्) त्वग्वत् (असि) भवति (प्रति) क्रियार्थे पश्चादर्थे। प्रतीत्येतस्य प्रातिलोम्यं प्राह॥ निरु०॥ १॥ ३॥ (त्वा) तत्तं वा (अदितिः) नाशरहितो जगदीश्वरः। अदितिरिति पदनामसु पठितम्॥ निघं० ५। ५॥ अनेन ज्ञानस्वरूपोऽर्थो गृह्यते। अन्तरिक्षं वा (वेत्तु) जानातु ज्ञापयतु वा (अद्रिः) मेघः। अद्रिरिति मेघनामसु पठितम्॥ निघं० १। १०॥ (असि) अस्ति (वानस्पत्यः) वनस्पतेर्विकारो रसमयः (ग्रावा) जलगृहीतो मेघः। ग्रावेति मेघनामसु पठितम्॥ निघं० १। १०॥ (असि) अस्ति (पृथुबुध्नः) पृथु=विस्तीर्णं बुध्नमन्तरिक्षं निवासार्थं यस्य स पृथुबुध्नो मेघः। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति॥ निरु० १०। ४४॥ (प्रति) उक्तार्थे (त्वा) तम् (अदित्याः) अन्तरिक्षस्य (त्वक्) त्वग्वत् सेविनम् (वेत्तु) जानातु ज्ञापयतु वा॥ अयं मंत्रः श०१।१।४।४-७ व्याख्यातः॥१४॥
Essence
[हे मनुष्या! युष्मद्गृहं शर्मासि=भवतु...तच्च गृहमदित्यास्त्वग्वदस्तु]

ईश्वरेणाज्ञाप्यते--मनुष्यैः शुद्धाया सर्वतोऽवकाशयुक्तायाः पृथिव्या मध्ये सर्वेष्वृतुषु सुखदायकं गृहं रचयित्वा तत्र सुखेन स्थातव्यम्।

[तस्माद् गृहाद्रक्षोऽवधूतमरातयोऽवधूताः]

तस्मात्सर्वे दुष्टा मनुष्या दोषाश्च निवारणीयास्तत्र सर्वाणि साधनान्यपि स्थापनीयानि। तत्रैव वृष्टिहेतुं यज्ञमनुष्ठाय सुखानि संपादनीयानि।

[ तात्पर्यमाह]

एवं कृते वायुवृष्टिजलशुद्धिद्वारा महत्सुखं जगति सिध्यतीति॥१।१४॥
Subject
शर्मास्यवधूतथं रक्षोऽवधूता ऽअरातयोऽदित्यास्त्वर्गसि प्रति त्वादितिवेत्तु।
अरिसि वानस्पत्यो ग्राासि पृथुबुनः प्रति त्वादित्यास्त्ववेत्तु॥१४॥
Meaning of Anvay
हे मनुष्याः ! युष्मद्गृहं शर्म सुखकारकं गृहम् असि=भवतु भवति, तस्माद् गृहाद् रक्षः दुष्टस्वभावो जन्तुः अवधूतं दूरीकृतं=विचलितम्, अरातयः दानशीलतारहिताः शत्रवः अवधूताः दूरीभूता भवन्तु। तच्च गृहमदित्यास्त्वगसि=पृथिव्यास्त्वग्वदस्त्विति (अदित्याः=पृथिव्याः, त्वक्=त्वग्वत्, असि= भवति) सर्वो जनः प्रतिवेत्तु जानातु।

यो वानस्पत्यः वनस्पतेर्विकारो रसमयः अद्रिः मेघः, पृथुबुध्नः पृथु=विस्तीर्णं बुध्नम्=अन्तरिक्षं निवासार्थं यस्य स पृथुबुध्नो=मेघः, ग्रावा=मेघः जलगृहीतो मेघः असि=वर्तते, एतद्विद्यामदितिः=जगदीश्वरः नाशरहितः तुभ्यं वेत्तु=कृपया वेदयतु ज्ञापयतु।

विद्वानप्यदित्या अन्तरिक्षस्य [त्वक्]=त्वग्वत् त्वग्वत् सेविनं त्वा=तं व्यवहारं प्रति+वेत्तु पश्चात् जानातु ज्ञापयतु वा॥१।१४॥
Meaning of Essence
शर्म=सर्वेष्वृतुषु सुखदायकं गृहम्। अदित्याः=शुद्धायाः सर्वतोऽवकाशयुक्तायाः पृथिव्याः। रक्षः=दुष्टो मनुष्यः। अरातयः=सर्वे दोषाः। अवधूताः=निवारिताः॥
Special
परमेष्ठी प्रजापतिः। यज्ञः=स्पष्टम्॥ स्वराड् जगती। निषादः॥

पुनः स यज्ञः कीदृशोऽस्ति कथं कर्त्तव्यश्चेत्युपदिश्यते॥