Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 13

31 Mantra
1/13
Devata- इन्द्रो देवता । अग्निः यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् उष्णिक्,भूरिक् आर्ची गायत्री,भुरिक् उष्णिक्, Swara- ऋषभः
Mantra with Swara
यु॒ष्माऽइन्द्रो॑ऽवृणीत वृत्र॒तूर्य्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ। अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि। दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि॥१३॥

यु॒ष्माः। इन्द्रः॑। अ॒वृ॒णी॒त॒। वृ॒त्र॒तूर्य्य॒ इति॑ वृत्र॒ऽतूर्य्ये॑। यू॒यम्। इन्द्र॑म्। अ॒वृ॒णी॒ध्व॒म्। वृ॒त्र॒तूर्य्य॒ इति॑ वृ॒त्र॒ऽतूर्य्ये॑। प्रोक्षि॑ता॒ इति॒ प्रऽउ॑क्षिताः। स्थ॒। अ॒ग्नये॑। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। अ॒ग्नीषोमा॑भ्याम्। त्वा॒। जुष्ट॑म्। प्रऽउ॒क्षा॒मि॒ ॥ दैव्या॑य। कर्म॑णे। शु॒न्ध॒ध्व॒म्। दे॒व॒य॒ज्याया॒ इति॑ देवऽय॒ज्यायै॑। यत्। वः॒। अशु॑द्धाः। प॒रा॒ज॒घ्नुरिति॑ पराऽज॒घ्नुः। इ॒दम्। वः॒ तत्। शु॒न्धा॒मि॒ ॥१३॥

Mantra without Swara
युष्माऽइन्द्रो वृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वँ वृत्रतूर्ये प्रोक्षिता स्थ । अग्नये त्वा जुष्टम्प्रोक्षामियग्नीषोमाभ्यान्त्वा जुष्टम्प्रोक्षामि । दैव्याय कर्मणे शुन्धध्वन्देवयज्यायै यद्वोशुद्धाः पराजघ्नुरिदँवस्तच्छुन्धामि ॥

युष्माः। इन्द्रः। अवृणीत। वृत्रतूर्य्य इति वृत्रऽतूर्य्ये। यूयम्। इन्द्रम्। अवृणीध्वम्। वृत्रतूर्य्य इति वृत्रऽतूर्य्ये। प्रोक्षिता इति प्रऽउक्षिताः। स्थ। अग्नये। त्वा। जुष्टम्। प्र। उक्षामि। अग्नीषोमाभ्याम्। त्वा। जुष्टम्। प्रऽउक्षामि॥ दैव्याय। कर्मणे। शुन्धध्वम्। देवयज्याया इति देवऽयज्यायै। यत्। वः। अशुद्धाः। पराजघ्नुरिति पराऽजघ्नुः। इदम्। वः तत्। शुन्धामि॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युष्माः) ताः पूर्वोक्ता आपः। अत्र व्यत्ययः। वा छन्दसि सर्वे विधयो भवन्तीति शसः सकारस्य नत्वाभावश्च (इन्द्र:) सूर्यलोकः (अवृणीत) वृणीते। अत्र लडर्थे लङ् (वृत्रतूर्य्ये) वृत्रस्य=मेघस्य तूर्य्यो= वधस्तस्मिन्। वृत्र इति मेघनामसु पठितम्॥ निघ० १।१०॥ तूरी गतित्वरणहिंसनयोरित्यस्मात्कर्मणि ण्यत्। वृत्रतूर्य्य इति संग्रामनामसु पठितम्॥ निघं० २।१७॥ (यूयम्) विद्वांसो मनुष्याः (इन्द्रम्) वायुम्। इन्द्रेण वायुना॥ ऋ० १। १४। १०॥ इतींद्रशब्देन वायोर्ग्रहणम् (अवृणीध्वम्) वृणते=स्वीकुरुध्वम्। अत्र प्रथमपक्षे लडर्थे लङ् (वत्रतूर्ये) वृत्रस्य तूर्य्ये=शीघ्रवेगे। (प्रोक्षिताः) प्रकृष्टतया सिक्ताः सेचिता वा (स्थ) भवन्ति। अत्रापि व्यत्ययः (अग्नये) भौतिकाय परमेश्वराय वा (त्वा) तं यज्ञम् (जुष्टम्) विद्याप्रीतिक्रियाभिः सेवितम् (प्रोक्षामि) सेचयामि (अग्नीषोमाभ्याम्) अग्निश्च सोमश्च ताभ्याम् (त्वा) तं वृष्ट्यर्थम् (जुष्टम्) प्रीतं प्रीत्या सेवनीयम् (प्रोक्षामि) प्रेरयामि (दैव्याय) दिवि भवं दिव्यं तस्य भावस्तस्मै (कर्मणे) पंचविधलक्षणचेष्टामात्राय। उत्क्षेपणमवक्षेपणमाकुंचनं प्रसारणं गमनमिति कर्माणि॥ वैशे० १। ७॥ इत्यत्र पञ्चविधं कर्म गृह्यते (शुन्धध्वम्) शुन्धन्ति शोधयत वा। अत्रापि व्यत्यय आत्मनेपदं च (देवयज्यायै) देवानां विदुषां दिव्यगुणानां वा यज्या--सत्क्रिया तस्यै। छन्दसि निष्टर्क्य०॥ अ० ३। १। १२३॥ इति देवयज्याशब्दो निपातितः (यत्) यस्माद्यज्ञेन शोधितत्वात् (वः) तासां युष्माकं वा (अशुद्धाः) न शुद्धा=अशुद्धा गुणाः (पराजघ्नुः) पराहता=विनष्टा भवेयुः। अत्र लिङर्थे लिट् (इदम्) शोधनम् (वः) तासां युष्माकं वा (तत्) तस्मादशुद्धिनाशेन सुखार्थत्वात् (शुन्धामि) पवित्रीकरोमि॥ अयं मंत्रः श॰ १।१।३।८-१२ व्याख्यातः॥ १३॥
Essence
[ इन्द्रो वृत्रतूर्ये युष्माः=ताः--अप अवृणीत, ...ता इन्द्रं=वायुमवृणीध्वं=वृणते तथैव ता अपो यूयं--प्रोक्षिता वृणीध्वम्; यथा ता आपः शुद्धाः स्थ=भवेयुः]

अत्र लुप्तोपमालङ्कारः। ईश्वरेणाग्निसूर्यावेतदर्थौ रचितौ यदिमौ सर्वेषां पदार्थानां मध्ये प्रविष्टौ, जलौषधिरसान् छित्त्वा, वायुं प्राप्य, मेघमण्डलं गत्वाऽऽगत्य च शुद्धिसुखकारका भवेयुः,

[ एतदर्थमहं यज्ञानुष्ठाता दैव्याय कर्मणे...'जुष्टं  त्वा=तं यज्ञं प्रोक्षामि]

तस्मात्--मनुष्यैरुत्तमसुखलाभायाग्नौ सुगन्ध्यादिपदार्थानां होमेन वायुवृष्टिजलशुद्धिद्वारा दिव्यसुखानामुत्पादनाय संप्रीत्या नित्यं यज्ञः करणीयः।

[ यद् वः--अशुद्धा गुणास्ते परा जघ्नुः]

यतः सर्वे दोषा नष्टा भूत्वाऽस्मिन् विश्वे सततं शुद्धा गुणाः प्रकाशिता भवेयुः।

[तत्=तस्मात्कारणादहं व:=तासामिदं शोधनं शुन्धामि]

एतदर्थमहमीश्वर इदं शोधनमादिशामि--यूयं परोपकारार्थानि शुद्धानि कर्माणि नित्यं कुरुतेति।

[एवमग्नीषोमाभ्यां [जुष्टं] त्वा=तं यज्ञं प्रोक्षामि]

एवं रीत्यैव वाय्वग्निजलगुणग्रहणप्रयोजनाभ्यां शिल्पविद्ययाऽनेकानि यानानि यन्त्रकलाश्च रचयित्वा पुरुषार्थेन सदैव सुखिनो भवतेति॥१।१३॥

 
Subject
यज्ञो देवता। भुरिगुष्णिक् छन्दः। ऋषिभः स्वरः॥
पुनस्ताः कथंभूता आप इन्द्रवृत्रयुद्धं चेत्युपदिश्यते॥
Meaning of Anvay
यथाऽयमिन्द्रः सूर्यलोकः वृत्रतूर्ये वृत्रस्य=मेघस्य तूर्यो=वधस्तस्मिन् युष्माः=ताः पूर्वोक्ता अपः अवृणीत=वृणीते, यथा ता इन्द्रं=वायुम् अवृणीध्वं=वृणते तथैव ता अपो यूयं विद्वांसो मनुष्या वृत्रतूर्ये वृत्रस्य तूर्ये=शीघ्रवेगे प्रोक्षिताः प्रकृष्टतया सिक्ताः सेचिता वा वृणीध्वम्।

यथा ता आपः शुद्धाः स्थ=भवेयुः भवन्ति एतदर्थमहं यज्ञानुष्ठाता दैव्याय दिवि भवं दिव्यं तस्य

भावस्तस्यै कर्मणे पंचविधलक्षणचेष्टामात्राय देवयज्यायै देवानां=विदुषां दिव्यगुणानां वा यज्या=सत्क्रिया तस्यै अग्नये भौतिकाय परमेश्वराय वा जुष्टं विद्याप्रीतिक्रियाभि: सेवितं त्वा=तं यज्ञं प्रोक्षामि सेचयामि। एवमग्नीषोमाभ्याम् अग्निश्च सोमश्चैताभ्यां [जुष्टम्] प्रीतं=प्रीत्या सेवनीयं त्वा=तं (तं) वृष्ट्यर्थं यज्ञं प्रोक्षामि तं प्रेरयामि।

 

एवं यज्ञशोधितास्ता आपः शुन्धध्वम् शुन्धन्ति शोधयत वा, यत् यस्माद् यज्ञेन शोधितत्वात् वः=तासां अशुद्धा न शुद्धा अशुद्धा (गुणाः) गुणास्ते पराजघ्नुः पराहताः विनष्टा भवेयुः, तत्--तस्मात् अशुद्धिनाशेन सुखार्थत्वात् वः=तासां इदं=शोधनं शुन्धामि पवित्रोकरोमि॥ इत्येकोऽन्वयः॥

 

अथ द्वितीयमन्वयमाह--हे यज्ञानुष्ठातारो मनुष्याः ! यद् यदिन्द्रः सूर्यलोकः वृत्रतूर्ये वृत्रस्य=मेघस्य तूर्यो=वधस्तस्मिन् युष्माः ताः पूर्वोक्ता आप इन्द्रं वायुम् अवृणीत वृणीते यत्=यस्माद् यज्ञेन शोधितत्वात् च इन्द्रेण वृत्रतूर्ये वृत्रस्य तूर्ये=शीघ्रवेगे ताः प्रोक्षिताः प्रकृष्टतया सिक्ताः सेचिता वा स्थ=भवन्ति, तस्माद् यूयं विद्वांसो मनुष्याः त्व=तं (तं) वृष्ट्यर्थं यज्ञं सदा वृणीध्वं स्वीकुरुध्वम्।

एवं च सर्वे जनाः--"दैव्याय दिवि भवं दिव्यं तस्य भावस्तस्मै कर्मणे पंचविधलक्षणचेष्टामात्राय देवयज्यायै देवानां=विदुषां दिव्यगुणानां वा यज्या=सत्क्रिया तस्यै अग्नये भौतिकाय परमेश्वराय वा त्वा=तं (तं) वृष्ट्यर्थं जुष्टं विद्याप्रीतिक्रियाभिः सेवितं यज्ञं प्रोक्षामि सेचयामि, तथा च--अग्नीषोमाभ्यां अग्निश्च सोमश्च ताभ्यां जुष्टं प्रीतं=प्रीत्या सेवनीयं त्वा=तं यज्ञं प्रोक्षामि प्रेरयामि,” एवं कुर्वन्तो यूयं विद्वांसो मनुष्याः सर्वान् पदार्थान् जनाँश्च शुन्धध्वं=शोधयत।

यत् यस्माद् यज्ञेन शोधितत्वाद् वः तासां युष्माकं वा अशुद्धाः=दोषाः न शुद्धा अशुद्धा गुणाः ते सदैव पराजघ्नुः=निवृत्ता भवेयुः पराहताः=विनष्टा भवेयुः, तत्=तस्मात् कारणात् अशुद्धिनाशेन सुखार्थत्वाद् अहं वः=युष्माकमिदं=शोधनं शुन्धामि पवित्रीकरोमि॥ इति द्वितीयोऽन्वयः॥१।१३॥
Meaning of Essence
 

दैव्याय=उत्तमसुखलाभाय, दिव्यसुखानामुत्पादनाय। अशुद्धाः=सर्वे दोषाः। अग्नीषोमाभ्याम्= वाय्वग्निजलगुणग्रहणप्रयोजनाभ्याम्॥
Special
मेष्ठी प्रजापतिः। इन्द्रः=सूर्यः। निचृदुष्णिक्। ऋषभः।

अग्नये त्वेत्यस्य ऋषिः स एव। अग्निर्देवता (भौतिकः, परमेश्वरः)।

भुरिगार्ची गायत्री छन्द। षड्जः स्वरः। दैव्याय कर्मण इत्यस्य ऋष स एव।