Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 12

31 Mantra
1/12
Devata- अप्सवितारौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् अत्यष्टि, Swara- गान्धारः
Mantra with Swara
प॒वित्रे॑ स्थो वैष्ण॒व्यौ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य रश्मिभिः॑। देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिꣳ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म्॥१२॥

प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्र॒ऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। देवीः॑। आ॒पः॒। अ॒ग्रे॒गु॒व॒ इत्य॑ग्रेऽगुवः। अ॒ग्रे॒पु॒व॒ इत्य॑ग्रेऽपुवः॒। अग्रे॑। इ॒मम्। अ॒द्य। य॒ज्ञम्। न॒य॒त॒। अग्रे॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। सु॒धातु॒मिति॑ सु॒धाऽतु॑म्। य॒ज्ञप॑ति॒मिति॑ यज्ञऽप॑तिम्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म् ॥१२॥

Mantra without Swara
पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । देवीरापोऽअग्रेगुवो अग्रेपुवोग्रऽइममद्ययज्ञन्नयताग्रे यज्ञपतिँ सुधातुँ यज्ञपतिन्देवयुवम् ॥

पवित्रेऽइति पवित्रे। स्थः। वैष्णव्यौ। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिऽभिः। देवीः। आपः। अग्रेगुव इत्यग्रेऽगुवः। अग्रेपुव इत्यग्रेऽपुवः। अग्रे। इमम्। अद्य। यज्ञम्। नयत। अग्रे। यज्ञपतिमिति यज्ञऽपतिम्। सुधातुमिति सुधाऽतुम्। यज्ञपतिमिति यज्ञऽपतिम्। देवयुवमिति देवऽयुवम्॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पवित्रे) पवित्रकरणहेतू प्राणापानगती (स्थः) भवतः। अत्र व्यत्ययः (वैष्णव्यौ) यज्ञस्येमौ व्याप्तिकर्तारौ=पवनपावकौ तौ (सवितुः) जगदुत्पादकस्येश्वरस्य (वः) ताः। अत्र पुरुषव्यत्यय: (प्रसवे) उत्पन्नेऽस्मिन् जगति (उद्) धात्वर्थे। उदित्येतयोः प्रातिलोम्यं प्राह॥निरु०१।३॥ (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) छिद्ररहितैः (पवित्रेण) शुद्धिकरणहेतुभिः (सूर्यस्य) प्रत्यक्षलोकस्य (रश्मिभिः) किरणैः (देवीः) दिव्यगुणयुक्ताः। अत्र सुपां सुलुगिति पूर्वसवर्णादेशः (आपः) जलानि (अग्रेगुवः) अग्रे=समुद्रेऽन्तरिक्षे गच्छन्तीति ताः (अग्रेपुवः) प्रथमां पृथिवीस्थसोमौषधि सेविकाः (अग्रे) पुरःसरत्वे क्रियासंबंधे (इमम्) प्रत्यक्षम् (अद्य) अस्मिन्नहनि (यज्ञम्) पूर्वोक्तम् (नयत) प्रापयत (अग्रे) (यज्ञपतिम्) यज्ञस्यानुष्ठातारं स्वामिनम् (सुधातुम्) शोभना धातवः=शरीरस्था मन-आदयः सुवर्णादयो वा यस्य तम् (यज्ञपतिम्) यज्ञस्य कामयितारम् (देवयुवम्) देवान्=विदुषो दिव्यगुणान्वा यौति=प्राप्नोति प्रापयतीति वा तम्॥ अयं मंत्रः श० १। १। ३। १-७ व्याख्यातः॥१२॥
Essence
 

[अच्छिद्रेण [पवित्रेण] सूर्यस्य रश्मिभिः पवित्रे=शुद्धौ वैष्णव्यौ=पवनपावकौ स्थः=भवतः]

अत्र लुप्तोपमालङ्कारः। ये पदार्थाः संयोगेन विकारं प्राप्नुवन्ति, अग्निना छिन्नाः पृथक्-पृथक् परमाणवो भूत्वा वायौ विहरन्ति, ते शुद्धा भवन्ति।

यथा यज्ञानुष्ठानेन वायुजलानामुत्तमे शुद्धिपुष्टी जायेते, न तथाऽन्येन भवितुमर्हतः, तस्माद्धोमक्रिया- शुद्धैर्वाय्वग्निजलादिभिः शिल्पविद्यया यानानि साधयित्वा कामनासिद्धिं कुर्युः, कारयेयुश्च।

[अग्रेगुवः--प्रग्रेपुवो--आपः]

या आपोऽस्मात्स्थानादुत्थाय समुद्रम्=अन्तरिक्षं गच्छन्ति, ततः पुनः पृथिव्यादिपदार्थानागच्छन्ति

-ताः प्रथमाः संख्यायन्ते, या मेघस्थास्ता द्वितीया इति॥

[अत्र शतपथे मेघविद्यामाह--]

शतपथब्राह्मणे मेघस्य=वृत्रस्य सूर्यलोकस्य च युद्धाख्यायिकयाऽस्य मन्त्रस्य व्याख्याने मेघवि-

द्योक्ता॥१।१२॥

 
Subject
अग्नौ हुतं द्रव्यं मेघमंडलं प्राप्य कीदृशं भवतीत्युपदिश्यते॥
Meaning of Anvay
हे विद्वांसः! यथा ! सवितुः परमेश्वरस्य जगदुत्पादकस्येश्वरस्य प्रसवे=अस्मिन् संसारे उत्पन्नेऽस्मिन् जगति अच्छिद्रेण छिद्ररहितैः [पवित्रेण] शुद्धिकरणहेतुभिः सूर्यस्य प्रत्यक्षलोकस्य रश्मिभिः किरणैः पवित्रे=शुद्धौ पवित्रकरणहेतू प्राणाऽपानगती वैष्णव्यौ=पवनपावकौ यज्ञस्येमौ व्याप्तिकर्त्तारौ पवनपावको तौ स्थः=भवतः, यथा चैतैरग्रेगुवः अग्रे=समुद्रेऽन्तरिक्षे गच्छन्तीति ता अग्रेपुवः प्रथमां पृथिवीस्थसोमौषधिं सेविकाः देवीः दिव्यगुणयुक्ताः आपः जलानि पवित्रा भवेयुस्तथा शुद्धानि द्रव्याण्यग्नौ [नयत=प्रापयत, तथैवाऽहमद्य अस्मिन्नहनि इमं प्रत्यक्ष यज्ञं पूर्वोक्तम् अग्रे नीत्वाऽग्रे सुधातुं शोभना धातवः=शरीरस्था मन आदयः सुवर्णादयो वा यस्य तं यज्ञपतिं वा यज्ञस्यानुष्ठातारं स्वामिनं देवयुवं देवान्=विदुषो दिव्यगुणान्वा यौति=प्राप्नोति प्रापयतीति वा तं यज्ञपतिं यज्ञस्य कामयितारं चोत्पुनामि पवित्रीकरोमि ॥१।१२॥

 

 
Meaning of Essence
अग्रेगुवः=या आपोऽस्मात्स्थानादुत्थाय समुद्रम्=अन्तरिक्षं गच्छन्ति ततः पुनः पृथिव्यादिपदार्थानागच्छन्ति ताः प्रथमाः (आपः)। अग्रेपुवः=या मेघस्थास्ता द्वितीया: (आपः)॥

 
Special
परमेष्ठी प्रजापतिः। अप्सवितारौ=जलम्, ईश्वरः। भुरिगत्यष्टि:। धैवतः॥