Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 10

31 Mantra
1/10
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् बृहती, Swara- मध्यमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि॥१०॥

दे॒वस्य॑। त्वा॒। सवि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। अ॒ग्नये॑। जुष्ट॑म्। गृ॒ह्णा॒मि॒। अ॒ग्नीषोमा॑भ्याम्। जुष्ट॑म्। गृ॒ह्णा॒मि॒ ॥१०॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टङ्गृह्णागृह्णाम्यग्नीषोमाभ्यां जुष्टङ्गृह्णामि ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुभ्याम्। पूष्णः। हस्ताभ्याम्। अग्नये। जुष्टम्। गृह्णामि। अग्नीषोमाभ्याम्। जुष्टम्। गृह्णामि॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) सर्वजगत्प्रकाशकस्य सर्वसुखदातुरीश्वरस्य (त्वा) तत् (सवितुः) सविता वै देवानां प्रसवि ता॥ श० १। १। २। १७॥ तस्य सर्वजगदुत्पादकस्य सकलैश्वर्यप्रदातुः (प्रसवे) सवितृप्रसूतेऽस्मिन् जगति (अश्विनोः) सूर्याचन्द्रमसोरध्वर्य्वोर्वा। सूर्याचन्द्रमसावित्येके॥ निरु० १२॥ १॥ (बाहुभ्याम्) बलवीर्याभ्याम्। वीर्यं वा एतद्राजन्यस्य यद्बाहू॥ श० ५। ३। ३। १७॥ (पूष्णः) पुष्टिकर्तु: प्राणस्य (हस्ताभ्याम्) ग्रहणविसर्जनाभ्याम् (अग्नये) अग्निविद्यासंपादनाय (जुष्टम्) विद्यां चिकीर्षुभिः सेवितं कर्म (गृह्णामि) स्वीकरोमि। (अग्नीषोमाभ्याम्) अग्निश्च सोमश्च ताभ्यामग्निजलविद्याभ्याम् (जुष्टम्) विद्वद्भिः प्रीतं फलम् (गृह्णामि) पूर्ववत्। अयं मंत्र: श० १।१। २।१७-१९ व्याख्यातः॥१०॥
Essence
[ देवस्य प्रसवे, अग्नये, अश्विनोः अग्नीषोमाभ्यां, बाहुभ्याम्]

विद्वद्भिर्मनुष्यैर्विद्वत्संगत्या सम्यक् पुरुषार्थेनेश्वरेणोत्पादितायामस्यां सृष्टौ सकलविद्यासिद्धये सूर्याचन्द्राऽग्निजलादिपदार्थानां सकाशात् सर्वेषां बलवीर्य्यवृद्धये च सर्वा विद्याः संसेव्य प्रचारणीयाः।

                                     [ तात्पर्यमाह--]

यथा जगदीश्वरेण सकलपदार्थानामुत्पादनधारणाभ्यां सर्वोपकारः कृतोऽस्ति, तथैवाऽस्माभिरपि नित्यं प्रयतितव्यम्॥ १। १०॥
Subject
तस्य यज्ञफलस्य ग्रहणं केन कुर्वन्तीत्युपदिश्यते॥
Meaning of Anvay
यत् सवितुः तस्य सर्वजगदुत्पादकस्य सकलैश्वर्यप्रदातु: देवस्य सर्वजगत् प्रकाशकस्य सर्वसुखदातुरीश्वरस्य प्रसवे सवितृप्रसूतेऽस्मिन् जगति अश्विनोः सूर्याचन्द्रमसोरध्वर्य्वोर्वा बाहुभ्यां बलवीर्याभ्यां पूष्णः पुष्टिकर्त्तुः प्राणस्य हस्ताभ्यां ग्रहणविसर्जनाभ्याम् अग्नये अग्निविद्यासम्पादनाय जुष्टं विद्यां चिकीर्षुभिः सेवितं कर्म अस्ति, त्वा=तत्कर्माऽहं गृह्णामि स्वीकरोमि।

एवं च यद्विद्वद्भिरग्नीषोमाभ्याम् अग्निश्च सोमश्च ताभ्यामग्निजलविद्याभ्यां जुष्टं=प्रीतं चारु फलं विद्वद्भिः प्रीतं फलम् अस्ति तदहं गृह्णामि स्वीकरोमि॥ १।१०॥
Meaning of Essence
प्रसवे=उत्पादितायामस्यां सृष्टौ। अग्नये=सकलविद्यासिद्धये। बाहुभ्याम्=बलवीर्यवृद्धये॥
Special
परमेष्ठी प्रजापतिः। सविता=ईश्वरः॥ भुरिग्बृहती। मध्यमः॥