Samveda Translation (Dr. Tulsi Ram)

Samveda Mantra 982

1875 Mantra
Devata- अग्निः Rishi- अरुणो वैतहव्यः Chhand- जगती Swara- निषादः
Mantra with Swara
त꣢व꣣ श्रि꣡यो꣢ व꣣꣬र्ष्य꣢꣯स्येव वि꣣द्यु꣢तो꣣ग्ने꣡श्चि꣢कित्र उ꣣ष꣡सा꣢मि꣣वे꣡त꣢यः । य꣡दो꣢꣯षधी꣣रभि꣡सृ꣢ष्टो꣣ व꣡ना꣢नि च꣣ प꣡रि꣢ स्व꣣यं꣡ चि꣢नु꣣षे꣡ अन्न꣢꣯मा꣣स꣡नि꣢ ॥९८२॥

त꣡व꣢꣯ । श्रि꣡यः꣢꣯ । व꣣र्ष्य꣢स्य । इ꣣व । विद्यु꣡तः꣢ । वि꣣ । द्यु꣡तः꣢꣯ । अ꣣ग्नेः꣢ । चि꣣कित्रे । उष꣡सा꣢म् । इ꣣व । ए꣡त꣢꣯यः । आ । इ꣣तयः । य꣢त् । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । अभि꣡सृ꣢ष्टः । अ꣣भि꣢ । सृ꣣ष्टः । व꣡ना꣢꣯नि । च꣣ । प꣡रि꣢꣯ । स्व꣣य꣢म् । चि꣣नुषे꣢ । अ꣡न्न꣢꣯म् । आ꣣स꣡नि꣢ ॥९८२॥

Mantra without Swara
तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥

तव । श्रियः । वर्ष्यस्य । इव । विद्युतः । वि । द्युतः । अग्नेः । चिकित्रे । उषसाम् । इव । एतयः । आ । इतयः । यत् । ओषधीः । ओष । धीः । अभिसृष्टः । अभि । सृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आसनि ॥९८२॥

Samveda - Mantra Number : 982
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Translation (Dr. Tulsi Ram)

English
Samveda Translation (Dr. Tulsi Ram) - English
Meaning
Your wonderful lustre and beauties shine like lightning flashes of the clouds of rain, like lights of the rising dawns, specially, when, radiating warm and free, you reach and shine upon the herbs and trees and fields of grain and receive them into the shining warmth of your maturing and ripening radiations. (Rg. 10-91-5)