Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

Samveda Mantra 891

1874 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानस्य ते꣣ र꣢सो꣣ द꣢क्षो꣣ वि꣡ रा꣢जति द्यु꣣मा꣢न् । ज्यो꣢ति꣣र्वि꣢श्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥८९१॥

प꣡व꣢꣯मानस्य । ते꣣ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । वि । रा꣣जति । द्युमा꣣न् । ज्यो꣡तिः꣢꣯ । वि꣡श्व꣢꣯म् । स्वः꣢ । दृ꣣शे꣢ ॥८९१॥

Mantra without Swara
पवमानस्य ते रसो दक्षो वि राजति द्युमान् । ज्योतिर्विश्वꣳ स्वर्दृशे ॥

पवमानस्य । ते । रसः । दक्षः । वि । राजति । द्युमान् । ज्योतिः । विश्वम् । स्वः । दृशे ॥८९१॥

Samveda - Mantra Number : 891
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

हिन्दी
Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma) - हिन्दी
Meaning
(पवमानस्य) अन्तःकरण को पवित्र करने हारे, या प्रकाशित करने हारे (ते) तेरा (रसः) आनन्दरस (दक्षः) ज्ञान और बल रूप (द्युमान्) कान्तिमय होकर (विराजते) विशेष रूप से चमकता है। और वह (ज्योतिः) ज्योतिः स्वरूप (विश्वम्) समस्त (स्वः) सुखों को (दृशे) प्रकाशित कर दर्शाने हारा है।
Subject
missing
Footnote
‘पवमानरसस्त्व’ इति पादयोर्व्यत्ययः’ ऋ०।
Rishi | Devata | Chhanda | Swara
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥