Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

Samveda Mantra 1844

1874 Mantra
Devata- अग्निः Rishi- सुपर्णः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣प्सु꣡ रेतः꣢꣯ शिश्रिये वि꣣श्व꣡रू꣢पं꣣ ते꣡जः꣢ पृथि꣣व्या꣢꣫मधि꣣ य꣡त्स꣢म्ब꣣भू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे꣣ स्वं꣡ म꣢हि꣣मा꣢नं꣣ मि꣡मा꣢नः꣣ क꣡नि꣢क्रन्ति꣣ वृ꣢ष्णो꣣ अ꣡श्व꣢स्य꣣ रे꣡तः꣢ ॥१८४४

अप्सु꣢ । रे꣡तः꣢꣯ । शि꣣श्रिये । विश्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । ते꣡जः꣢꣯ । पृ꣣थिव्या꣢म् । अ꣡धि꣢꣯ । यत् । सं꣣बभू꣡व꣢ । स꣣म् । बभू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे । स्वम् । म꣣हिमा꣡न꣢म् । मि꣡मा꣢꣯नः । क꣡नि꣢꣯क्रन्ति । वृ꣡ष्णः꣢꣯ । अ꣡श्व꣢꣯स्य । रे꣡तः꣢꣯ ॥१८४४॥

Mantra without Swara
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव । अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥१८४४

अप्सु । रेतः । शिश्रिये । विश्वरूपम् । विश्व । रूपम् । तेजः । पृथिव्याम् । अधि । यत् । संबभूव । सम् । बभूव । अन्तरिक्षे । स्वम् । महिमानम् । मिमानः । कनिक्रन्ति । वृष्णः । अश्वस्य । रेतः ॥१८४४॥

Samveda - Mantra Number : 1844
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 7;

Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

हिन्दी
Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma) - हिन्दी
Meaning
(विश्वरूपं तेजः) नाना प्रकार के नर, तिर्यक् आदि रूप धारण करने हारे जीवात्मारूप ज्योति ने (अप्सु) जलों में (रेतः) वीर्यं रूप होकर (शिश्रिये) आश्रय प्राप्त किया (यत्) पुनः उसके बाद वह (पृथिव्याम्) पृथिवी में (अधि सम्बभूव) जीवरूप से उत्पन्न हुआ उसके बाद वह (स्वं) अपने (महिमानं) सामर्थ्य को (अन्तरिक्ष) अन्तरिक्ष में भी (मिमानः) व्यापारित करता हुआ अर्थात् पक्षी या सूर्य रूप में प्रकट होकर (वृष्णः) उस वीर्यसेक्ता सब के पिता (अश्वस्य) परमात्मा के (रेतः) वीर्य की (कनिक्रान्ति) महिमा का वर्णन करता है।
Subject
missing
Rishi | Devata | Chhanda | Swara
ऋषिः—१ अग्निः पावकः। २ सोभरिः काण्वः। ५, ६ अवत्सारः काश्यपः अन्ये च ऋषयो दृष्टलिङ्गाः*। ८ वत्सप्रीः। ९ गोषूक्तयश्वसूक्तिनौ काण्वायनौ। १० त्रिशिरास्त्वाष्ट्रः सिंधुद्वीपो वाम्बरीषः। ११ उलो वातायनः। १३ वेनः। ३, ४, ७, १२ इति साम ॥ देवता—१, २, ८ अग्निः। ५, ६ विश्वे देवाः। ९ इन्द्रः। १० अग्निः । ११ वायुः । १३ वेनः। ३, ४, ७, १२ इतिसाम॥ छन्दः—१ विष्टारपङ्क्ति, प्रथमस्य, सतोबृहती उत्तरेषां त्रयाणां, उपरिष्टाज्ज्योतिः अत उत्तरस्य, त्रिष्टुप् चरमस्य। २ प्रागाथम् काकुभम्। ५, ६, १३ त्रिष्टुङ। ८-११ गायत्री। ३, ४, ७, १२ इतिसाम॥ स्वरः—१ पञ्चमः प्रथमस्य, मध्यमः उत्तरेषां त्रयाणा, धैवतः चरमस्य। २ मध्यमः। ५, ६, १३ धैवतः। ८-११ षड्जः। ३, ४, ७, १२ इति साम॥
*केषां चिन्मतेनात्र विंशाध्यायस्य, पञ्चमखण्डस्य च विरामः।
*दृष्टिलिंगा दया० भाष्ये पाठः।