Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

Samveda Mantra 1455

1874 Mantra
Devata- सूर्यः Rishi- विभ्राट् सौर्यः Chhand- जगती Swara- निषादः
Mantra with Swara
इ꣣द꣢꣫ꣳ श्रेष्ठं꣣ ज्यो꣡ति꣢षां꣣ ज्यो꣡ति꣢रुत्त꣣मं꣡ वि꣢श्व꣣जि꣡द्ध꣢न꣣जि꣡दु꣢च्यते बृ꣣ह꣢त् । वि꣣श्वभ्रा꣢ड् भ्रा꣣जो꣢꣫ महि꣣ सू꣡र्यो꣢ दृ꣣श꣢ उ꣣रु꣡ प꣢प्रथे꣣ स꣢ह꣣ ओ꣢जो꣣ अ꣡च्यु꣢तम् ॥१४५५

इद꣣म्꣢ । श्रे꣡ष्ठ꣢꣯म् । ज्यो꣡ति꣢꣯षाम् । ज्यो꣡तिः꣢꣯ । उ꣣त्तम꣢म् । वि꣣श्वजि꣢त् । वि꣣श्व । जि꣢त् । ध꣣नजि꣢त् । ध꣣न । जि꣢त् । उ꣣च्यते । बृह꣢त् । वि꣣श्वभ्रा꣢ट् । वि꣣श्व । भ्रा꣢ट् । भ्रा꣣जः꣢ । म꣡हि꣢꣯ । सू꣡र्यः꣢꣯ । दृ꣣शे꣢ । उ꣣रु꣢ । प꣣प्रथे । स꣡हः꣢꣯ । ओ꣡जः꣢꣯ । अ꣡च्यु꣢꣯तम् । अ । च्यु꣣तम् ॥१४५५॥

Mantra without Swara
इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥१४५५

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्तमम् । विश्वजित् । विश्व । जित् । धनजित् । धन । जित् । उच्यते । बृहत् । विश्वभ्राट् । विश्व । भ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् । अ । च्युतम् ॥१४५५॥

Samveda - Mantra Number : 1455
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

हिन्दी
Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma) - हिन्दी
Meaning
वह आदित्ययोगी (इदं) यह (श्रेष्ठं) सर्वोत्कृष्ट (ज्योतिः) तेज (ज्योतिषां) समस्त प्रकाशमान पदार्थों में (उत्तमं) उत्कृष्ट कोटि का, (विश्वजित्) सब के विजेता, और (धनजित्) सब विभूतियों से भी उत्तम (बृहत्) विशाल (उच्यते) कहा जाता है। वह (विश्वभ्राट्) समस्त संसार का प्रकाशक (भ्राजः) सब पापों और पापी पुरुषों का संताप देने हारा, स्वयंप्रकाश, (महि) बड़ा भारी (सूर्यः) सूर्य के समान सब का प्रेरक, सब को प्रकाश देने हारा होकर (अच्युतं) अविनाशी (सहः) सहनशील, सब के अभिभावक तेज, (ओजः) और बल को (उरु) बहुत अधिक (पप्रथे) विस्तीर्ण होता है, फैलाता है।
Subject
missing
Rishi | Devata | Chhanda | Swara
ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥