Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

Samveda Mantra 1327

1874 Mantra
Devata- पवमानः सोमः Rishi- मनुराप्सवः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥१३२७॥

त꣡व꣢꣯ । द्र꣣प्साः꣢ । उ꣣दप्रु꣡तः꣢ । उ꣣द । प्रु꣡तः꣢꣯ । इ꣡न्द्र꣢꣯म् । म꣡दा꣢꣯य । वा꣣वृधुः । त्वा꣢म् । दे꣣वा꣡सः꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । कम् । प꣣पुः ॥१३२७॥

Mantra without Swara
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥

तव । द्रप्साः । उदप्रुतः । उद । प्रुतः । इन्द्रम् । मदाय । वावृधुः । त्वाम् । देवासः । अमृताय । अ । मृताय । कम् । पपुः ॥१३२७॥

Samveda - Mantra Number : 1327
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 10; Khand » 11;

Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

हिन्दी
Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma) - हिन्दी
Meaning
हे (सोम) सबके उत्पादक ! आनन्दरसस्वरूप ! (तव) तेरे (उदप्रुतः) रस को प्रवाहित करने हारे (द्रप्साः) द्रुतगति से बहने वाले आनन्दरस (इन्द्रं) आत्मा को (मदाय) अति आनन्द प्राप्त कराके निमित्त (वावृधुः) बढ़ाते हैं, उसे और अधिक शक्तिशाली बनाते हैं। (देवासः) विद्वान् योगीजन (कं) आनन्दस्वरूप (त्वां) तुझको (अमृताय) अमृतस्वरूप परम आनन्द-प्राप्ति के लिये (पपुः) पान करते हैं।
Subject
missing
Rishi | Devata | Chhanda | Swara
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥