Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

Samveda Mantra 1154

1874 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
आ꣡ नः꣢ सोम सं꣣य꣡तं꣢ पि꣣प्यु꣢षी꣣मि꣢ष꣣मि꣢न्दो꣣ प꣡व꣢स्व꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ । या꣢ नो꣣ दो꣡ह꣢ते꣣ त्रि꣢꣫रह꣣न्न꣡स꣢श्चुषी क्षु꣣म꣡द्वाज꣢꣯व꣣न्म꣡धु꣢मत्सु꣣वी꣡र्य꣢म् ॥११५४॥

आ꣢ । नः꣣ । सोम । सं꣡यत꣢म् । स꣣म् । य꣡त꣢꣯म् । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । इ꣡न्दो꣢꣯ । प꣡व꣢꣯स्व । प꣡व꣢꣯मानः । ऊ꣣र्मि꣡णा꣢ । या । नः꣣ । दो꣡ह꣢꣯ते । त्रिः । अ꣡ह꣢꣯न् । अ । ह꣣न् । अ꣡स꣢꣯श्चुषी । अ । स꣣श्चुषी । क्षुम꣢त् । वा꣡ज꣢꣯वत् । म꣡धु꣢꣯मत् । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११५४॥

Mantra without Swara
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा । या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥

आ । नः । सोम । संयतम् । सम् । यतम् । पिप्युषीम् । इषम् । इन्दो । पवस्व । पवमानः । ऊर्मिणा । या । नः । दोहते । त्रिः । अहन् । अ । हन् । असश्चुषी । अ । सश्चुषी । क्षुमत् । वाजवत् । मधुमत् । सुवीर्यम् । सु । वीर्यम् ॥११५४॥

Samveda - Mantra Number : 1154
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 4;

Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma)

हिन्दी
Samveda Sanhita Bhasha Bhashy (Pt. Jaydev Sharma) - हिन्दी
Meaning
(हे इन्दो) तेजस्विन् ! सोम ! (पवमान) सर्वत्र व्यापक ! (या) जो (नः) हमारे लिये (अहन्) दिन में (त्रिः) तीनबार (अस श्चुषी) बिना रोक टोक के (क्षुमत्) कीर्त्तियुक्त (वाजवत्) बलयुक्त, ज्ञानयुक्त (मधुमत्) आनन्दरस से पूर्ण (सुवीर्यम्) उत्तम बल (दोहते) प्राप्त करावे ऐसी (संयतं) उत्तम रीति से सुप्रबन्ध युक्त (पिप्युषीम्) सदा वृद्धि करने हारी (इषं) समृद्धि को (ऊर्मिणा) अपनी अनन्त शक्ति से (पवस्व) प्राप्त कराओ।
Subject
missing
Rishi | Devata | Chhanda | Swara
ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥