Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 998

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
अ꣣नूपे꣢꣫ गोमा꣣न्गो꣡भि꣢रक्षाः꣣ सो꣡मो꣢ दु꣣ग्धा꣡भि꣢रक्षाः । स꣣मुद्रं꣢꣫ न सं꣣व꣡र꣢णान्यग्मन्म꣣न्दी꣡ मदा꣢꣯य तोशते ॥९९८॥

अ꣣नूपे꣢ । गो꣡मा꣢꣯न् । गो꣡भिः꣢꣯ । अ꣣क्षारि꣡ति꣢ । सो꣡मः꣢꣯ । दु꣣ग्धा꣡भिः꣢ । अ꣣क्षारि꣡ति꣢ । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । न । सं꣣व꣡र꣢णानि । स꣣म् । व꣡र꣢꣯णानि । अ꣣ग्मन् । मन्दी꣢ । म꣡दा꣢꣯य । तो꣣शते ॥९९८॥

Mantra without Swara
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥

अनूपे । गोमान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति । समुद्रम् । सम् । उद्रम् । न । संवरणानि । सम् । वरणानि । अग्मन् । मन्दी । मदाय । तोशते ॥९९८॥

Samveda - Mantra Number : 998
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यदा (गोमान्) गोस्वामी (गोभिः) धेनुभिः सह (अनूपे) जलप्रचुरे देशे (अक्षाः) क्षियति निवसति तदा (दुग्धाभिः) दुग्धाभ्योऽपि गोभ्यः। [पञ्चम्यर्थे तृतीया।] (सोमः) पयः (अक्षाः) क्षरति। एतावत् प्रचुरं गोदुग्धं गोषु भवति यद् दोहनानन्तरमपि पर्याप्तं पयः स्तनेष्ववशिष्यमाणः स्रवतीति भावः। (समुद्रं न) पयोधिं यथा (संवरणानि) नदीनाम् उदकानि गच्छन्ति, तद्वद् गवां दुग्धानि विशालं कटाहादिकम् (अग्मन्) गच्छन्ति। (मन्दी) हर्षकरः गोदुग्धरूपः सोमः (मदाय) गोस्वामिनां हर्षाय (तोशते) दोहनकाले शब्दं करोति। [तुस शब्दे भ्वादिः, सकारस्य शकारादेशश्छान्दसः] ॥२॥ एतन्मन्त्रस्य पूर्वार्धो यास्काचार्येणैवं व्याख्यातः [अनूपे गोमान् गोभिरक्षाः सोमो दुग्धाभिरक्षाः। क्षियति-निगमः पूर्वः, क्षरति-निगम उतरः इत्येके। अनूपे गोमान् गोभिर्यदा क्षियत्यथ सोमो दुग्धाभ्यः क्षरति। सर्वे क्षियति-निगमा इति शाकपूणिः। निरु० ५।१३। इति] ॥ अत्रोपमालङ्कारः। ‘रक्षाः’ इत्यस्यावृत्तौ च यमकम् ॥२॥
Essence
यस्मिन् गृहे परिवारे वा प्रचुरदुग्धदात्र्यो धेनवः सन्ति तन्निवासिनो यथेच्छं गोदुग्धदधिनवनीतादिकं सेवमाना गव्येन घृतेन यज्ञांश्च कुर्वन्तः परमात्मानं च ध्यायन्तः सदा सुप्रसन्नास्तिष्ठन्ति ॥२॥
Subject
अथ दोग्ध्र्यो गावो वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०७।९।