Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 997

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
सो꣡म꣢ उ ष्वा꣣णः꣢ सो꣣तृ꣢भि꣣र꣢धि꣣ ष्णु꣢भि꣣र꣡वी꣢नाम् । अ꣡श्व꣢येव ह꣣रि꣡ता꣢ याति꣣ धा꣡र꣢या म꣣न्द्र꣡या꣢ याति꣣ धा꣡र꣢या ॥९९७॥

सो꣡म꣢꣯ । उ꣣ । स्वानः꣢ । सो꣣तृ꣡भिः꣢ । अ꣡धि꣢꣯ । स्नु꣡भिः꣢꣯ । अ꣡वी꣢꣯नाम् । अ꣡श्व꣢꣯या । इ꣣व । हरि꣡ता꣢ । या꣣ति । धा꣡र꣢꣯या । म꣣न्द्र꣡या꣢ । या꣣ति । धा꣡र꣢꣯या ॥९९७॥

Mantra without Swara
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् । अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥

सोम । उ । स्वानः । सोतृभिः । अधि । स्नुभिः । अवीनाम् । अश्वया । इव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥९९७॥

Samveda - Mantra Number : 997
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोतृभिः) गोदुग्धक्षारकैः (अवीनां स्नुभिः) अविबालनिर्मितैः सानुवत् प्रततैः वस्त्रैः। [मांस्पृत्स्नूनामुपसंख्यानम्। अ० ६।१।६३ वा० इत्यनेन सानुशब्दस्य स्नुरादेशः।] (अधिष्वाणः) अधिषूयमाणः अधिक्षार्यमाणः (सोमः) गवां पयः२ (अश्वया इव) आशुगामिन्या नद्या इव (हरिता) शीघ्रया (धारया) प्रवाहसन्तत्या (याति) कटाहेषु क्षरति, (मन्द्रया) आनन्दप्रदया (धारया) प्रवाहसन्तत्या (याति) कटाहेषु क्षरति ॥१॥ अत्रोपमालङ्कारः। ‘याति धारया’ इत्यस्य पुनरुक्तौ च लाटानुप्रासः ॥१॥
Essence
यस्मिन् देशे गोदुग्धस्य धाराः प्रवहन्ति तत्रत्या जना हृष्टाः पुष्टा बलीयांसः सन्तो दीर्घायुष्यं लभमानाः सुचिरं यज्ञादिकर्माणि कुर्वन्तोऽध्यात्मजीवनं च यापयन्तो मोदन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१५ क्रमाङ्के सोमौषधिरसविषये ब्रह्मानन्दविषये च व्याख्याता। अत्र अविबालनिर्मितैर्वस्त्रखण्डैर्गोदुग्धक्षरणं वर्ण्यते।
Footnote
१. ९।१०७।८, ‘ष्वाणः’ इत्यत्र ‘षुवा॒णः’ इति पाठः। साम० ५१५। २. ‘अ॒नू॒पे गोमा॒न् गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः।’ ऋ० ९।१०७।९, साम० ९९८ इति प्रामाण्याद् गवां पयोऽपि सोम उच्यते।