Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 994

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡र्षा꣢ सोम द्यु꣣म꣡त्त꣢मो꣣ऽ꣡भि द्रोणा꣢꣯नि꣣ रो꣡रु꣢वत् । सी꣢द꣣न्यो꣢नौ꣣ व꣢ने꣣ष्वा꣢ ॥९९४॥

अ꣡र्ष꣢꣯ । सो꣣म । द्युम꣡त्त꣢मः । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । रो꣡रु꣢꣯वत् । सी꣡द꣢꣯न् । यो꣡नौ꣢꣯ । व꣡ने꣢꣯षु । आ ॥९९४॥

Mantra without Swara
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदन्योनौ वनेष्वा ॥

अर्ष । सोम । द्युमत्तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । योनौ । वनेषु । आ ॥९९४॥

Samveda - Mantra Number : 994
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगत्स्रष्टः परमात्मन् ! (योनौ) अन्तरिक्षे (वनेषु) उदकेषु (आसीदन्) तिष्ठन्, (द्युमत्तमः) अतिशयेन द्युतिमान्, (रोरुवत्) गर्जनां कुर्वन् विद्युदग्निरिव (योनौ) गृहे (वनेषु) अरण्येषु च, सर्वत्रैवेत्यर्थः (आसीदन्) आतिष्ठन् (द्युमत्तमः) तेजस्वितमः (रोरुवत्) कर्त्तव्यमुपदिशन् त्वम् (द्रोणानि अभि) आत्ममनोबुद्ध्यादीन् द्रोणकलशान् प्रति (अर्ष) आगच्छ ॥१॥ अत्र श्लेषमूलो वाचकलुप्तोपमालङ्कारः ॥१॥
Essence
गृहे वाऽरण्ये वा, गिरौ वा गह्वरेषु वा, सरित्सु वा समुद्रे वा, भुवि वा दिवि वा, विद्युति वाऽन्तरिक्षे वा, देहे वाऽऽत्मनि वा सर्वत्रैव विराजमानोऽपि जगदीश्वरो यावद् ध्यानेन प्रकाशितो न जायते तावत् प्रत्यक्षतां नो याति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५०३ क्रमाङ्के परमात्मविषये वानप्रस्थविषये च व्याख्याता। अत्र प्रकारान्तरेण परमात्मपक्ष एव प्रदर्श्यते।
Footnote
१. ऋ० ९।६५।१९, ‘सीदञ्छ्येनो न योनिमा’ इति पाठः। साम० ५०३, ऋषिः भृगुः।