Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 993

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣢भि꣣रा꣡ ग꣢च्छतं न꣣रो꣢पे꣣द꣡ꣳ सव꣢꣯नꣳ सु꣣त꣢म् । इ꣡न्द्रा꣢ग्नी꣣ सो꣡म꣢पीतये ॥९९३॥

ता꣡भिः꣢꣯ । आ । ग꣣च्छतम् । नरा । उ꣡प꣢꣯ । इ꣣द꣢म् । स꣡व꣢꣯नम् । सु꣣त꣢म् । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥९९३॥

Mantra without Swara
ताभिरा गच्छतं नरोपेदꣳ सवनꣳ सुतम् । इन्द्राग्नी सोमपीतये ॥

ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् । इन्द्राग्नी । इन्द्र । अग्नीइति । सोमपीतये । सोम । पीतये ॥९९३॥

Samveda - Mantra Number : 993
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरा) नरौ नेतारौ (इन्द्राग्नी) आत्ममनसी नृपतिसेनापती वा ! (इदं सवनम् उप सुतम्)युवाभ्याम् इदम् उद्बोधनस्तोत्रं गीतमस्ति। युवाम् (ताभिः) पूर्वमन्त्रोक्ताभिः नियुद्भिः लक्षसंख्यकाभिः उदात्ताभिः कामनाभिः सह (सोमपीतये) वीररसस्य पानाय (आ गच्छतम्) आयातम् ॥३॥२
Essence
मनुष्यस्यात्मनि नृपतौ सेनाध्यक्षे वा या बह्व्यो महत्त्वाकाङ्क्षास्तिष्ठन्ति ता वीरतयैव साद्धुं शक्यन्ते। आध्यात्मिकोत्कर्षोऽपि वीरतयैव संभवति न त्वलसत्वेन ॥३॥ अस्मिन् खण्डेऽग्निस्तुत्या परमात्मस्तुतिवर्णनाद् मित्रावरुणनाम्ना परमात्मजीवात्मनोः प्राणापानयोश्च वर्णनाद्, इन्द्रनाम्ना जीवात्मन उद्बोधनाद्, इन्द्राग्निनाम्नाऽऽत्ममनसोरुद्बोधनात्, प्रसङ्गतश्च मित्रावरुणनाम्ना राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोश्च, इन्द्राग्निनाम्ना च नृपतिसेनापत्योः कर्तव्यादिकथनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ६।६०।९। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।