Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 992

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
या꣢ वा꣣ꣳ स꣡न्ति꣢ पुरु꣣स्पृ꣡हो꣢ नि꣣यु꣡तो꣢ दा꣣शु꣡षे꣣ नरा । इ꣡न्द्रा꣢ग्नी꣣ ता꣢भि꣣रा꣡ ग꣢तम् ॥९९२॥

याः । वा꣣म् । स꣡न्ति꣢꣯ । पु꣣रुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि꣣यु꣡तः꣢ । नि꣣ । यु꣡तः꣢꣯ । दा꣣शु꣡षे꣢ । न꣣रा । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । ता꣡भिः꣢꣯ । आ । ग꣣तम् ॥९९२॥

Mantra without Swara
या वाꣳ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरा गतम् ॥

याः । वाम् । सन्ति । पुरुस्पृहः । पुरु । स्पृहः । नियुतः । नि । युतः । दाशुषे । नरा । इन्द्राग्नी । इन्द्र । अग्नीइति । ताभिः । आ । गतम् ॥९९२॥

Samveda - Mantra Number : 992
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरा) नरौ नेतारौ (इन्द्राग्नी) आत्ममनसी नृपतिसेनापती वा ! (दाशुषे) दत्तवते त्यागशीलाय परोपकारिणे जनाय (याः वाम्) युवयोः (नियुतः) लक्षसंख्यकाः (पुरुस्पृहः) बहुमहत्त्वाकाङ्क्षिण्यः उदात्ताः कामनाः सन्ति (ताभिः) उदात्ताभिः कामनाभिः युवाम् (आ गतम्२) आगच्छतम् ॥२॥३
Essence
देहे मनुष्यस्यान्तरात्मा मनश्च राष्ट्रे राजा सेनाध्यक्षश्च परहितकारिणमेव जनमुपकुर्वन्ति न स्वार्थपङ्कलिप्तम् ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ६।६०।८। २. अत्र गम्लृ गतौ इत्यस्माद् ‘बहुलं छन्दसि’ इति शपो लुकि सति शित्वाभावाच्छस्याभावो ‘अनुदात्तोपदेश’ इत्यादिना मलोपश्च इति य० ७।८ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममध्यापको-पदेशकपक्षे व्याख्यातवान्।