Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 990

1875 Mantra
Devata- इन्द्रः Rishi- कुरुसुतिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वा꣡च꣢म꣣ष्टा꣡प꣢दीम꣣हं꣡ नव꣢꣯स्रक्तिमृता꣣वृ꣡ध꣢म् । इ꣢न्द्रा꣣त्प꣡रि꣢त꣣꣬न्वं꣢꣯ ममे ॥९९०॥

वा꣡च꣢꣯म् । अ꣣ष्टा꣡प꣢दीम् । अ꣣ष्ट꣢ । प꣣दीम् । अह꣢म् । न꣡व꣢꣯स्रक्तिम् । न꣡व꣢꣯ । स्र꣣क्तिम् । ऋतावृ꣡ध꣢म् । ऋ꣣त । वृ꣡ध꣢꣯म् । इ꣡न्द्रा꣢꣯त् । प꣡रि꣢꣯ । त꣢न्वम् । म꣣मे ॥९९०॥

Mantra without Swara
वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । इन्द्रात्परितन्वं ममे ॥

वाचम् । अष्टापदीम् । अष्ट । पदीम् । अहम् । नवस्रक्तिम् । नव । स्रक्तिम् । ऋतावृधम् । ऋत । वृधम् । इन्द्रात् । परि । तन्वम् । ममे ॥९९०॥

Samveda - Mantra Number : 990
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
शिष्यो ब्रूते। (अहम्) शिष्यः (इन्द्रात्) विद्यैश्वर्ययुक्ताद् आचार्यात् (अष्टापदीम्) प्रथमादिसप्तविभक्तिभिः सम्बोधनेन च युक्तां सुबन्तरूपामिति यावत्, (नवस्रक्तिम्) प्रथममध्यमोत्तम- पुरुषेष्वेकवचनद्विवचनबहुवचनरूपां नवविभागयुक्तां, तिङन्तरूपामिति यावत्, (ऋतावृधम्) सत्यज्ञानस्य वर्द्धिकाम्, (तन्वम्) विस्तृताम् (वाचम्) वाणीम् (परिममे) परिच्छिनद्मि, परिगृह्णामि। सर्वाणि सुबन्ततिङन्तरूपाणि ज्ञात्वा निखिलेऽपि वाङ्मये पण्डितो भवामीति भावः ॥३॥२
Essence
सर्वैर्विद्यार्थिभिर्व्याकरणशास्त्रं सम्यग् अधीत्यान्येषु च वेदाङ्गेषु प्रवीणतां प्राप्य वेदार्थान् ज्ञात्वा विद्वद्भिर्भूत्वा स्वाविद्यार्थिनोऽध्यापनीयाः ॥३॥
Subject
जीवात्मनि वीरता तदैव समागच्छति यदा स ज्ञानी भवतीति शिष्यस्याचार्यसकाशाज्ज्ञानग्रहणमाह।
Footnote
१. ऋ० ८।७६।१२, अथ० २०।४२।१, उभयत्र ‘ऋतावृधम्’ इत्यत्र ‘ऋत॒स्पृश॑म्’ इति पाठः। २. अष्टापदीम् अष्टाभिर्दिग्भिर्विदिग्भिश्चाष्टापदीम्, नवस्रक्तिम् उपरिस्थितेनादित्येन नवस्रक्तिम् वाचं स्तुतिमयीम्—इति सा०। अष्टापदीम्—चत्वारो वेदाः शास्त्राणि च अष्टापदानि। नवस्रक्तिम् नवस्रक्तयः कोणाः ताः बहिष्पवमानाः ऋचो नव, अथवा नवस्रक्तिं त्रिवृत्स्तौमिकीम्—इति वि०।