Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 99

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥९९॥

अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इ꣢ति । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥९९॥

Mantra without Swara
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥

अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥९९॥

Samveda - Mantra Number : 99
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सहसः यहो) बलस्य पुत्र पुत्तलक वा, बलिनां बलिन्२। सहः इति बलनाम। निघं० २।९, यहुः इत्यपत्यनाम। निघं० २।२। (जातवेदः) सर्वज्ञ, सर्वव्यापक, सर्वधनज्ञानोत्पादक (अग्ने) ज्योतिर्मय परमात्मन् ! यद्वा, हे (सहसः यहो) शत्रुपराजयशीलस्य बलवतो वा पितुः पुत्र३। सहते इति सहाः तस्य, षह अभिभवे इति धातोः औणादिकोऽसुन् प्रत्ययः। यद्वा सहस्वतः इति प्राप्ते मतुब्लोपः। (जातवेदः) जातं वेदो विज्ञानं यस्य तादृश शास्त्रज्ञ अग्ने विद्वन् राजन् वा ! (गोमतः) प्रशस्तधेनुपृथिवीवेदवागादियुक्तस्य (वाजस्य) ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम्। अस्मच्छब्दात् सुपां सुलुक्० अ० ७।१।३९ इति चतुर्थीबहुवचनस्य शे आदेशः। (महि) महत् (श्रवः) कीर्तिं, प्रशंसां, धनधान्यादिकं च। श्रवः श्रवणीयं यशः। निरु० ११।७, प्रशंसाम्। निरु० ४।२३, अन्नम्। निघं० २।७, धनम्। निघं० २।१०। (देहि) प्रयच्छ ॥३॥४ अत्र श्लेषालङ्कारः ॥३॥
Essence
मनुष्यैर्जगदीश्वरस्योपासनया पुरुषार्थिभिर्भूत्वा स्वपुरुषार्थेन किञ्च गृहीतसर्वशास्त्राणां विदुषां राजनीतिज्ञस्य नृपतेश्च साहाय्येन निखिलं धनधान्यविद्यासाम्राज्यादिकमैश्वर्यं, सुविस्तीर्णं यशश्च प्राप्तव्यम् ॥३॥
Subject
अथ परमात्मा, विद्वान् नृपतिश्च प्रार्थ्यते।
Footnote
१. ऋ० १।७९।४, य०– १५।३५ ऋषिः परमेष्ठी। उभयत्र देहि इत्यस्य स्थाने धेहि इति पाठः। साम० १५६१। २. यो हि यस्य गुणस्य पुत्रस्तस्मिन् तद्गुणस्यातिशयः सूच्यते। ३. ‘सहसः बलवतः यहो सुसन्तान इति य० १५।३५ भाष्ये—द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातवान्।