Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 989

1875 Mantra
Devata- इन्द्रः Rishi- कुरुसुतिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡नु꣢ त्वा꣣ रो꣡द꣢सी उ꣣भे꣡ स्पर्ध꣢꣯मानमददेताम् । इ꣢न्द्र꣣ य꣡द्द꣢स्यु꣣हा꣡भ꣢वः ॥९८९॥

अ꣡नु꣢꣯ । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । स्प꣡र्ध꣢꣯मानम् । अ꣣ददेताम् । इ꣡न्द्र꣢꣯ । यत् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । अ꣡भ꣢꣯वः ॥९८९॥

Mantra without Swara
अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । इन्द्र यद्दस्युहाभवः ॥

अनु । त्वा । रोदसीइति । उभेइति । स्पर्धमानम् । अददेताम् । इन्द्र । यत् । दस्युहा । दस्यु । हा । अभवः ॥९८९॥

Samveda - Mantra Number : 989
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शरीरधर जीवात्मन् ! (स्पर्धमानम्) स्पर्धां कुर्वन्तम् (त्वा) त्वाम् (उभे रोदसी) उभे द्यावापृथिव्यौ मातापितरौ वा (अनु अददेताम्) अनुकूलम् उत्साहं साधुवादं च प्रयच्छतः [दद दाने भ्वादिः, लडर्थे लङ्।] (यत्) यदा, त्वम् (दस्युहा) दस्यूनां हन्ता (अभवः) जायसे। [अत्रापि लडर्थे लङ्] ॥२॥
Essence
यदा मनुष्य उत्साहितो भूत्वा दुर्विचारान् दुष्टजनांश्च हन्ति तदा तस्मिन् कर्मणि सर्वे तस्य समर्थका जायन्ते ॥२॥
Subject
अथ जीवात्मनो वीरकर्म प्रशस्यते।
Footnote
१. ऋ० ८।७६।११, अथ० २०।४२।२, उभयत्र ‘क्रक्षमाणमकृपेताम्’ इति द्वितीयः पादः।