Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 988

1875 Mantra
Devata- इन्द्रः Rishi- कुरुसुतिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣त्ति꣢ष्ठ꣣न्नो꣡ज꣢सा स꣣ह꣢ पी꣣त्वा꣡ शिप्रे꣢꣯ अवेपयः । सो꣡म꣢मिन्द्र च꣣मू꣢ सु꣣त꣢म् ॥९८८॥

उ꣣त्ति꣡ष्ठ꣢न् । उ꣣त् । ति꣡ष्ठ꣢꣯न् । ओ꣡ज꣢꣯सा । स꣣ह꣢ । पी꣣त्वा꣢ । शिप्रे꣢꣯इ꣡ति꣢ । अ꣣वेपयः । सो꣡म꣢꣯म् । इ꣣न्द्र । चमू꣡इति꣢ । सु꣣त꣢म् ॥९८८॥

Mantra without Swara
उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् ॥

उत्तिष्ठन् । उत् । तिष्ठन् । ओजसा । सह । पीत्वा । शिप्रेइति । अवेपयः । सोमम् । इन्द्र । चमूइति । सुतम् ॥९८८॥

Samveda - Mantra Number : 988
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (ओजसा सह) तेजसा साकम् (उत्तिष्ठन्) उद्यच्छन् (चमू) चम्वोः मनोबुद्धिरूपयोः अधिषवणफलकयोः (सुतम्) अभिषुतम् (सोमम्) वीररसम् (पीत्वा) आस्वाद्य (शिप्रे) हनू जम्भौ इति यावत्। [शिप्रे हनू नासिके वा इति निरुक्तम् (६।१७)। हनू इत्युपलक्षणम् अन्येषामङ्गानामपि।] (अवेपयः)चालयसि। [टुवेपृ कम्पने, णिजन्तः, लडर्थे लङ्।] हन्वादिचालनं च शत्रुं प्रत्युग्रभावप्रकाशनार्थम् ॥१॥२
Essence
मनुष्यः स्वात्मनि वीरताया भावान् तरङ्गितान् कृत्वा सर्वान् विघ्नान् विदार्यान्तरान् बाह्यांश्च शत्रूनुच्छिन्द्यात् ॥१॥
Subject
तत्रादौ जीवात्मनो वीररसपानविषयमाह।
Footnote
१. ऋ० ८।७६।१०, अथ० २०।४२।३, उभयत्र ‘पी॒त्वी’ इति पाठः। २. यजुर्वेदे ८।३९ कण्डिकायाः प्रारम्भोऽप्यनेनैव मन्त्रेण भवति। तत्र दयानन्दर्षिर्मन्त्रांशमिमं सभापतिपक्षे व्याख्यातवान्।