Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 987

1875 Mantra
Devata- मित्रावरुणौ Rishi- उरुचक्रिरात्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पा꣣तं꣡ नो꣢ मित्रा पा꣣यु꣡भि꣢रु꣣त꣡ त्रा꣢येथाꣳ सुत्रा꣣त्रा꣢ । सा꣣ह्या꣢म꣣ द꣡स्यू꣢न् त꣣नू꣡भिः꣢ ॥९८७॥

पात꣢म् । नः꣣ । मित्रा । मि । त्रा । पायु꣡भिः꣢ । उ꣣त꣢ । त्रा꣣येथाम् । सु꣣त्रात्रा꣢ । सु꣣ । त्रात्रा꣢ । सा꣣ह्या꣡म꣢ । द꣡स्यू꣢꣯न् । त꣣नू꣡भिः꣢ ॥९८७॥

Mantra without Swara
पातं नो मित्रा पायुभिरुत त्रायेथाꣳ सुत्रात्रा । साह्याम दस्यून् तनूभिः ॥

पातम् । नः । मित्रा । मि । त्रा । पायुभिः । उत । त्रायेथाम् । सुत्रात्रा । सु । त्रात्रा । साह्याम । दस्यून् । तनूभिः ॥९८७॥

Samveda - Mantra Number : 987
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मित्रा) सुहृद्भूतौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! युवाम् (पायुभिः) पालनसाधनैः [पान्ति एभिरिति पायवः। पा रक्षणे धातोः ‘कृवापा०’। उ० १।१ इत्युण् प्रत्ययः।] (नः) अस्मान् (पातम्) पालयतम्। (उत) अपि च (सुत्रात्रा) सुत्राणकर्त्रा गुणगणेन (त्रायेथाम्) रक्षतम्। युवयोः साहाय्येन वयम् (तनूभिः) शरीरैः (दस्यून्) क्षयकारिणः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) पाराजयेमहि ॥३॥२
Essence
परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च साहाय्यं प्राप्य पुरुषार्थं कृत्वा वयं सदैव सुरक्षिता भवितुं शक्नुमः ॥३॥
Subject
अथ पुनरपि तौ प्रार्थयते।
Footnote
१. ऋ० ५।७०।३, ‘मित्रा’ इत्यत्र ‘रुद्रा’, ‘सासह्याम’ इत्यत्र ‘तु॒र्य्याम॒’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सभासेनेशविषये व्याख्यातः।