Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 986

1875 Mantra
Devata- मित्रावरुणौ Rishi- उरुचक्रिरात्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣡ वा꣢ꣳ स꣣म्य꣡ग꣢द्रुह्वा꣣णे꣡ष꣢मश्याम꣣ धा꣡म꣢ च । व꣣यं꣡ वां꣢ मित्रा स्याम ॥९८६॥

ता । वा꣣म् । सम्य꣢क् । अ꣣द्रुह्वाणा । अ । द्रुह्वाणा । इ꣡ष꣢꣯म् । अ꣡श्याम । धा꣡म꣢꣯ । च꣣ । वय꣢म् । वा꣣म् । मित्रा । मि । त्रा । स्याम ॥९८६॥

Mantra without Swara
ता वाꣳ सम्यगद्रुह्वाणेषमश्याम धाम च । वयं वां मित्रा स्याम ॥

ता । वाम् । सम्यक् । अद्रुह्वाणा । अ । द्रुह्वाणा । इषम् । अश्याम । धाम । च । वयम् । वाम् । मित्रा । मि । त्रा । स्याम ॥९८६॥

Samveda - Mantra Number : 986
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रुह्वाणा) अद्रुह्यन्तौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! (ता वाम्) तौ युवाम्, वयं स्तुमः इति शेषः। युवयोः आनुकूल्येन वयम् (इषम्) अन्नरसधनविज्ञानादिकम् (धाम च) तेजश्च (सम्यक्) समुचितप्रकारेण (अश्याम) प्राप्नुयाम। हे (मित्रा) मित्रौ सर्वेषां सुहृद्भूतौ ! (वयम्) स्तोतारः (वाम्) युवयोः (स्याम) भवेम ॥२॥२
Essence
परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ च यथायोग्यमुपयुक्तौ महान्तमुपकारं जनयतः ॥२॥
Subject
अथ मित्रावरुणौ प्रार्थयते।
Footnote
१. ऋ० ५।७०।२, ‘धाम च’ इत्यत्र ‘धाय॑से’, ‘वां मित्रा’ इत्यत्र च ‘ते रु॑द्रा’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतमध्यापकोपदेशकविषये व्याख्यातवान्।