Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 985

1875 Mantra
Devata- मित्रावरुणौ Rishi- उरुचक्रिरात्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣रूरु꣡णा꣢ चि꣣द्ध्य꣡स्त्यवो꣢꣯ नू꣣नं꣡ वां꣢ वरुण । मि꣢त्र꣣ व꣡ꣳसि꣢ वाꣳ सुम꣣ति꣢म् ॥९८५॥

पु꣣रूरु꣡णा꣢ । पु꣣रु । उरु꣡णा꣢ । चि꣣त् । हि꣢ । अ꣡स्ति꣢꣯ । अ꣡वः꣢꣯ । नू꣣न꣢म् । वा꣣म् । वरुण । मि꣡त्र꣢꣯ । मि । त्र꣢ । व꣡ꣳसि꣢꣯ । वा꣣म् । सुमति꣢म् । सु꣣ । मति꣢म् ॥९८५॥

Mantra without Swara
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । मित्र वꣳसि वाꣳ सुमतिम् ॥

पुरूरुणा । पुरु । उरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण । मित्र । मि । त्र । वꣳसि । वाम् । सुमतिम् । सु । मतिम् ॥९८५॥

Samveda - Mantra Number : 985
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मित्र वरुण) मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ, अध्यापकोपदेशकौ, प्राणापानौ वा ! (वाम्) युवयोः (अवः) रक्षणम् (नूनम्) निश्चयेन (पुरूरुणा चित् हि) पुरूरुणम् एव, अतिशयेन विशालं खलु। [पुरूरुणम् इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन सोराकारादेशः] (अस्ति) वर्तते। अतः, अहम् (वाम्) युवयोः (सुमतिम्) अनुग्रहबुद्धिम् (वंसि) संभजेयम्। [वन संभक्तौ, उत्तमैकवचने छान्दसं रूपम्] ॥१॥२
Essence
परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च सुरक्षां प्राप्य दैहिकात्मिकसामाजिकदृष्ट्या वयमत्युन्नता भवितुं शक्नुमः ॥१॥
Subject
तत्रादौ मित्रावरुणौ स्तौति।
Footnote
१. ऋ० ५।७०।१। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजपुरुषविषये व्याख्यातवान्।