Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 984

1875 Mantra
Devata- अग्निः Rishi- अरुणो वैतहव्यः Chhand- जगती Swara- निषादः
Mantra with Swara
मे꣣धाकारं꣢ वि꣣द꣡थ꣢स्य प्र꣣सा꣡ध꣢नम꣣ग्नि꣡ꣳ होता꣢꣯रं परि꣣भू꣡त꣢रं म꣣ति꣢म् । त्वा꣡मर्भ꣢꣯स्य ह꣣वि꣡षः꣢ समा꣣न꣢꣫मित् त्वां म꣣हो꣡ वृ꣢णते꣣ ना꣢न्यं त्वत् ॥९८४॥

मे꣣धाकार꣢म् । मे꣣धा । कार꣢म् । वि꣣द꣡थ꣢स्य । प्र꣣सा꣡ध꣢नम् । प्र꣣ । सा꣡ध꣢꣯नम् । अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । प꣣रिभू꣡त꣢रम् । प꣣रि । भू꣡त꣢꣯रम् । म꣣ति꣢म् । त्वाम् । अ꣡र्भ꣢꣯स्य । ह꣣वि꣡षः꣢ । स꣣मान꣢म् । स꣣म । आन꣢म् । इत् । त्वाम् । म꣣हः꣢ । वृ꣣णते । न꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । त्वत् ॥९८४॥

Mantra without Swara
मेधाकारं विदथस्य प्रसाधनमग्निꣳ होतारं परिभूतरं मतिम् । त्वामर्भस्य हविषः समानमित् त्वां महो वृणते नान्यं त्वत् ॥

मेधाकारम् । मेधा । कारम् । विदथस्य । प्रसाधनम् । प्र । साधनम् । अग्निम् । होतारम् । परिभूतरम् । परि । भूतरम् । मतिम् । त्वाम् । अर्भस्य । हविषः । समानम् । सम । आनम् । इत् । त्वाम् । महः । वृणते । न । अन्यम् । अन् । यम् । त्वत् ॥९८४॥

Samveda - Mantra Number : 984
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मेधाकारम्) मेधायाः धारणावत्याः बुद्धेः प्रदातारम्, (विदथस्य) ब्रह्माण्डयज्ञस्य जनानां जीवनयज्ञस्य वा (प्रसाधनम्) साधयितारम्, (होतारम्) सुखादीनां दातारम्, (परिभूतरम्) अतिशयेन विघ्नानां परिभवकर्तारम्, (मतिम्) सर्वज्ञम्। [मन्यते जानाति सर्वमिति मतिः।] (त्वाम् अग्निम्) त्वाम् अग्रनेतारं (समानम् इत्) तुल्यरूपेण (अर्भस्य हविषः) स्वल्पस्य त्यागस्य कृते, (त्वाम्) त्वामेव च (महः) महतः हविषः, महतः त्यागस्य कृते, जनाः (वृणते) वृण्वते, आदर्शरूपेण स्वस्य पुरतः स्थापयन्ति, (त्वत् अन्यम्) त्वद् भिन्नम् (न) नैव वृणते ॥३॥ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। ‘तारम्’ ‘तरम्’ इति छेकानुप्रासः ॥३॥
Essence
त्यागस्य परोपकारस्य च कृते परमेश्वर एवादर्शरूपेण सर्वैः स्वसंमुखं स्थापनीयस्तमनुसृत्य च स्वयमपि त्यागः परोपकारश्च विधेयः ॥३॥
Subject
एवं भौतिकाग्निमुखेन परमात्मनो महिमानं प्रकाश्य सम्प्रत्यग्निनाम्ना जगदीश्वरं स्तौति।
Footnote
१. ऋ० १०।९१।८, ‘परि॒भूत॑मं’, ‘तमिदर्भे ह॒विष्या स॑मा॒नमित् तमिन्म॒हे’ इति पाठः।