Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 983

1875 Mantra
Devata- अग्निः Rishi- अरुणो वैतहव्यः Chhand- जगती Swara- निषादः
Mantra with Swara
वा꣡तो꣢पजूत इषि꣣तो꣢꣫ वशा꣣ꣳ अ꣡नु तृ꣣षु꣢꣫ यदन्ना꣣ वे꣡वि꣢षद्वि꣣ति꣡ष्ठ꣢से । आ꣡ ते꣢ यतन्ते र꣣थ्यो꣢३꣱य꣢था꣣ पृ꣢थ꣣क्श꣡र्धा꣢ꣳस्यग्ने अ꣣ज꣡र꣢स्य꣣ ध꣡क्ष꣢तः ॥९८३॥

वा꣡तो꣢꣯पजूतः । वा꣡त꣢꣯ । उ꣣पजूतः । इषि꣢तः । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । तृ꣣षु꣢ । यत् । अ꣡न्ना꣢꣯ । वे꣡वि꣢꣯षत् । वि꣡ति꣡ष्ठ꣢से । वि꣣ । ति꣡ष्ठ꣢꣯से । आ । ते꣣ । यतन्ते । रथ्यः꣢ । य꣡था꣢꣯ । पृ꣡थ꣢꣯क् । श꣡र्धा꣢꣯ꣳसि । अग्ने । अज꣡र꣢स्य । अ꣣ । ज꣡र꣢꣯स्य । ध꣡क्ष꣢꣯तः ॥९८३॥

Mantra without Swara
वातोपजूत इषितो वशाꣳ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो३यथा पृथक्शर्धाꣳस्यग्ने अजरस्य धक्षतः ॥

वातोपजूतः । वात । उपजूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । वितिष्ठसे । वि । तिष्ठसे । आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धाꣳसि । अग्ने । अजरस्य । अ । जरस्य । धक्षतः ॥९८३॥

Samveda - Mantra Number : 983
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) वह्ने ! (वातोपजूतः) वायुना उपकम्पितः (वशान् अनु) अभीष्टान् वनस्पतीन् अनुलक्ष्य। [वश कान्तौ।] (इषितः) प्रेरितः त्वम् (तृषु) क्षिप्रम् (यत्) यदा (अन्ना) अन्नानि, अदनीयानि वनस्पत्यादीनि (वेविषत्) व्याप्नुवन्। [विष्लृ व्याप्तौ, जुहोत्यादिः।] (वितिष्ठसे) इतस्ततः प्रचलसि, तदा (अजरस्य) अजीर्णस्य (धक्षतः) दहतः। [दह भस्मीकरणे, शतरि छान्दसं रूपम्।] (ते) तव (शर्धांसि) ज्वालारूपाणि तेजांसि (रथ्यः यथा) रथिनः इव, रथारोहिणो योद्धार इव। [रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ इति वार्त्तिकेन मत्वर्थे ई प्रत्ययः, ततः प्रथमाबहुवचने रूपम्।] (पृथक्) विभिन्नासु दिक्षु (आयतन्ते) उद्यच्छन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा रथारोहिणो योद्धारः संग्रामे पृथक् पृथक् विभिन्नासु दिक्षु शत्रून् प्रहरन्ति तथैव वनानि भस्मीकर्तुमुद्यता अग्निज्वालाः पृथक् पृथग् विभिन्नासु दिक्षु दहन्ति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० १०।९१।७, ‘वातो॑पधूतः’, ‘अ॒जरा॑णि॒ धक्ष॑तः’ इति पाठः।