Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 980

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सो꣢ अ꣣र्षे꣡न्द्रा꣢य पी꣣त꣡ये꣢ ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । सी꣡द꣢न्नृ꣣त꣢स्य꣣ यो꣢नि꣣मा꣢ ॥९८०॥

सः꣢ । अ꣣र्ष । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ । ति꣣रः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । सी꣡द꣢꣯न् । ऋ꣣त꣡स्य꣢ । यो꣡नि꣢꣯म् । आ ॥९८०॥

Mantra without Swara
सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया । सीदन्नृतस्य योनिमा ॥

सः । अर्ष । इन्द्राय । पीतये । तिरः । वाराणि । अव्यया । सीदन् । ऋतस्य । योनिम् । आ ॥९८०॥

Samveda - Mantra Number : 980
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम प्रवहणशील ब्रह्मानन्दरस ! (ऋतस्य योनिम्) सत्यस्य गृहं परमात्मानम् (आसीदन्) उपतिष्ठमानः (सः) प्रशंसनीयः त्वम् (अव्यया) अव्ययानि दुरतिक्रमणीयानि (वाराणि) योगमार्गाद् निवारकाणि व्याधिस्त्यानसंशयप्रमादालस्यादीनि विघ्नजालानि (तिरः) तिरस्कृत्य (इन्द्राय पीतये) जीवात्मनः पानाय (अर्ष) प्रस्रव ॥२॥
Essence
परमात्मनः प्रस्रुतः परमानन्दप्रवाहः स्तोतुरात्मभूमिं सिञ्चंस्तां सद्गुणसस्यैः श्यामलां करोति ॥२॥
Subject
अथानन्दरसप्रवाहमाकाङ्क्षते।
Footnote
१. ऋ० ९।६२।८, ‘रोमा॑ण्य॒व्यया॑ सीद॒न् योना॒ वने॒ष्वा’ इति पाठः।