Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 98

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ होत्रे꣢꣯ पू꣣र्व्यं꣢꣫ वचो꣣ऽग्न꣡ये꣢ भरता बृ꣣ह꣢त् । वि꣣पां꣡ ज्योती꣢꣯ꣳषि꣣ बि꣡भ्र꣢ते꣣ न꣢ वे꣣ध꣡से꣢ ॥९८॥

प्र꣢ । हो꣡त्रे꣢꣯ । पू꣣र्व्य꣢म् । व꣡चः꣢꣯ । अ꣣ग्न꣡ये꣢ । भ꣣रत । बृह꣢त् । वि꣣पा꣢म् । ज्यो꣡तीँ꣢꣯षि꣣ । बि꣡भ्र꣢꣯ते । न । वे꣣ध꣡से꣢ ॥९८॥

Mantra without Swara
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥

प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् । विपाम् । ज्योतीँषि । बिभ्रते । न । वेधसे ॥९८॥

Samveda - Mantra Number : 98
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जनाः ! यूयम् (विपाम्) मेधाविनां छात्राणाम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (ज्योतींषि) विद्यातेजांसि (बिभ्रते) पुष्णते (वेधसे न२) द्विजत्वसम्पादनार्थं द्वितीयजन्मविधात्रे आचार्याय इव, यथा आचार्याय स्तुतिवचांसि उच्चार्यन्ते तथेत्यर्थः। स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्म। शरीरमेव तु मातापितरौ जनयतः। आप० ध० सू० १।१।१।१६-१८ इत्यापस्तम्बस्मरणाद् आचार्यादेव द्वितीयं जन्म प्राप्य स्नातको द्विजो जायते। (विपाम्३) व्याप्तानां सूर्यचन्द्रनक्षत्रादीनाम् (ज्योतींषि) तेजांसि (बिभ्रते) पुष्णते (वेधसे) जगद्विधात्रे, (होत्रे) सुखसमृद्धिप्रदात्रे (अग्नये) तेजस्विने परमेश्वराय (बृहत्) महत् (पूर्व्यम्) श्रेष्ठम् अत्र पादार्घाभ्यां च।’ अ० ५।४।२५ इति सूत्रे परिगणितेषु स्वार्थयत्प्रत्ययीयशब्देषु पूर्वशब्दस्यापि पाठात् स्वार्थे यत् प्रत्ययः। (वचः) वेदस्तोत्रम् (प्र भरत) प्रकृष्टतया उच्चारयत। भृञ् भरणे, भौवादिकः। संहितायाम् ऋचि तुनुघमक्षु०। अ० ६।३।१३३ इति दीर्घः ॥२॥४ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
यथा कश्चिद् विद्वान् शिक्षकः स्वोपदेशेन शिक्षया च मेधाविभ्यश्छात्रेभ्यो विद्यातेजांसि प्रयच्छति तथैव यः परमेश्वरः सूर्यचन्द्रनक्षत्रविद्युदादिभ्यो ज्योतींषि परिददाति, तस्मिन् परमैश्वर्यशालिनि जगदीश्वरे सर्वैः श्रद्धातव्यम् ॥२॥
Subject
अथ जनाः परमेश्वराराधनाय प्रेर्यन्ते।
Footnote
१. ऋ० ३।१०।५ २. अत्र वेधसे इत्यतः पुरस्तात् प्रयुक्तोऽपि नकार उपमार्थीयो बोध्यः, बिभ्रते इति पदस्य वेधसे इत्यस्य विशेषणत्वात्। नकारः पादपूरणः—इति वि०। नेति सम्प्रत्यर्थे—इति भ०। नेत्ययं पादपूरणः अन्वयाभावात्, यद्वा वेधसे न यथा वेधाः जगद्विधाता परमेश्वरः आदित्यादीनि ज्योतींषि करोति तद्वत्—इति सा०। ३. विपां व्यातॄणाम्—इति वि०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् अध्यापकविद्वत्कृत्यविषये व्याख्यातवान्।