Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 978

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो꣢ जि꣣ना꣢ति꣣ न꣡ जीय꣢꣯ते꣣ ह꣢न्ति꣣ श꣡त्रु꣢म꣣भी꣡त्य꣢ । स꣡ प꣢वस्व सहस्रजित् ॥९७८॥

यः꣢ । जि꣣ना꣡ति꣢ । न । जी꣡य꣢꣯ते । ह꣡न्ति꣢꣯ । श꣡त्रु꣢꣯म् । अ꣣भी꣡त्य꣢ । अ꣣भि । इ꣡त्य꣢꣯ । सः । पव꣣स्व । सहस्रजित् । सहस्र । जित् ॥९७८॥

Mantra without Swara
यो जिनाति न जीयते हन्ति शत्रुमभीत्य । स पवस्व सहस्रजित् ॥

यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभीत्य । अभि । इत्य । सः । पवस्व । सहस्रजित् । सहस्र । जित् ॥९७८॥

Samveda - Mantra Number : 978
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम क्रियाशील जीवात्मन् ! (यः) यो भवान् (जिनाति) विघ्नान् विपदो वा विनाशयति। [ज्या वयोहानौ, क्र्यादिः।] (न जीयते) केनापि न पराजीयते, प्रत्युत (अभीत्य) आक्रम्य (शत्रुम्) वैरिणं कामक्रोधादिकम् (हन्ति) मारयति, (सः) असौ (सहस्रजित्) सहस्राणाम् आन्तराणां बाह्यानां च सम्पदां विजेता सन् त्वम् (पवस्व) प्रगतिं कुरु ॥४॥
Essence
परमेश्वरस्योपासकस्तत्सख्यं प्राप्य प्रचण्डानपि बाह्यानान्तरांश्च रिपून् विजेतुं क्षमते ॥४॥
Subject
अथ जीवात्मनः शक्तिं वर्णयंस्तमाह्वयति।
Footnote
१. ऋ० ९।५५।४।