Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 977

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣त꣡ नो꣢ गो꣣वि꣡द꣢श्व꣣वि꣡त्पव꣢꣯स्व सो꣣मा꣡न्ध꣢सा । म꣣क्षू꣡त꣢मेभि꣣र꣡ह꣢भिः ॥९७७॥

उत꣢ । नः꣣ । गोवि꣢त् । गो꣣ । वि꣢त् । अ꣣श्ववि꣢त् । अ꣣श्व । वि꣢त् । प꣡व꣢꣯स्व । सो꣣म । अ꣡न्ध꣢꣯सा । म꣣क्षू꣡त꣢मेभिः । अ꣡ह꣢꣯भिः । अ । ह꣣भिः ॥९७७॥

Mantra without Swara
उत नो गोविदश्ववित्पवस्व सोमान्धसा । मक्षूतमेभिरहभिः ॥

उत । नः । गोवित् । गो । वित् । अश्ववित् । अश्व । वित् । पवस्व । सोम । अन्धसा । मक्षूतमेभिः । अहभिः । अ । हभिः ॥९७७॥

Samveda - Mantra Number : 977
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सर्वैश्वर्यसम्पन्न राजाधिराज परमात्मन् ! (उत) अपि च, त्वम् (अन्धसा) आनन्दरसेन सह (गोवित्) धेनूनां प्रापयिता, प्राणबलानां वा प्रापयिता सन् (मक्षूतमेभिः अहभिः) शीघ्रतमैः दिवसैः, सद्य एवेति भावः (नः) अस्मान् (पवस्व) प्राप्नुहि ॥३॥
Essence
जगदीश्वरोऽस्मान् पुरुषार्थिनो विधाय दिव्यसम्पदा भौतिकसम्पदा च परिपूर्णान् करोतु ॥३॥
Subject
अथ जगदीश्वर आहूयते।
Footnote
१. ऋ० ९।५५।३।