Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 975

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡वं꣢यवं नो꣣ अ꣡न्ध꣢सा पु꣣ष्टं꣡पु꣢ष्टं꣣ प꣡रि꣢ स्रव । वि꣡श्वा꣢ च सोम꣣ सौ꣡भ꣢गा ॥९७५॥

य꣡वंय꣢꣯वम् । य꣡व꣢꣯म् । य꣣वम् । नः । अ꣡न्ध꣢꣯सा । पु꣣ष्टं꣡पु꣢ष्टम् । पु꣣ष्ट꣢म् । पु꣣ष्टम् । प꣡रि꣢꣯ । स्र꣣व । वि꣡श्वा꣢꣯ । च꣣ । सोम । सौ꣡भ꣢꣯गा । सौ । भ꣣गा ॥९७५॥

Mantra without Swara
यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव । विश्वा च सोम सौभगा ॥

यवंयवम् । यवम् । यवम् । नः । अन्धसा । पुष्टंपुष्टम् । पुष्टम् । पुष्टम् । परि । स्रव । विश्वा । च । सोम । सौभगा । सौ । भगा ॥९७५॥

Samveda - Mantra Number : 975
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगदाधार सर्वैश्वर्य ब्रह्माण्डाधिपते परमात्मन् ! त्वम् (अन्धसा) रसेन (पुष्टंपुष्टम्) अतिशयेन परिपुष्टम् (यवंयवम्) यवादिकं समग्रं भोग्यं पदार्थजातम्। [यव इत्युपलक्षणं समस्तस्य भोग्यपदार्थसमूहस्य।] (विश्वा सौभगा च) सर्वाणि सौभाग्यानि च (नः) अस्मभ्यम् (परिस्रव) परिप्रवाहय ॥१॥
Essence
येन जगत्पतिना सर्वे बहुमूल्याः पदार्था रचितास्तत्कृपयैव मनुष्यः स्वपुरुषार्थेन तानधिगन्तुं पारयति ॥१॥
Subject
तत्रादौ जगदीश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।५५।१, ‘सोम॒ विश्वा॑ च॒ सौभ॑गा’ इति तृतीयः पादः।