Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 974

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क्री꣣डु꣡र्म꣢खो꣡ न म꣢꣯ꣳह꣣युः꣢ प꣣वि꣡त्र꣢ꣳ सोम गच्छसि । द꣡ध꣢त्स्तो꣣त्रे꣢ सु꣣वी꣡र्य꣢म् ॥९७४॥

क्रीडुः꣢ । म꣣खः꣢ । न । म꣣ꣳहयुः꣢ । प꣣वि꣡त्र꣢म् । सो꣣म । गच्छसि । द꣡ध꣢꣯त् । स्तो꣣त्रे꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥९७४॥

Mantra without Swara
क्रीडुर्मखो न मꣳहयुः पवित्रꣳ सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम् ॥

क्रीडुः । मखः । न । मꣳहयुः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सुवीर्यम् । सु । वीर्यम् ॥९७४॥

Samveda - Mantra Number : 974
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगत्स्रष्टः परमात्मन् ! (क्रीडुः) जगत्सञ्चालनक्रीडाकरः, किञ्च (मखः न) यज्ञः इव (मंहयुः) दानेच्छुकः त्वम्। [मंहते दानकर्मा निघं० ३।२०। मंहं दानं परेषां कामयते इति मंहयुः। परेच्छायां क्यचि उः प्रत्ययः।] (स्तोत्रे) स्तुतिपरायणाय जनाय (सुवीर्यम्) सुवीर्योपेतम् आत्मबलम् (दधत्) प्रयच्छन्, तस्य (पवित्रम्) निर्मलम् अन्तःकरणम् (गच्छसि) व्याप्नोषि ॥७॥ अत्रोपमालङ्कारः ॥७॥
Essence
यथा यज्ञः सर्वेषामुपकाराय भवति तथा परमेश्वरोऽपि परेषामुपकारे संलग्नः स्तोतुरन्तरात्मनि बलमुत्साहं पुरुषार्थं कर्मयोगं च प्रेरयति ॥७॥
Subject
अथ किं कुर्वन् परमात्मा कुत्र गच्छतीत्याह।
Footnote
१. ऋ० ९।२०।७।