Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 972

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ राजे꣢꣯व सुव्र꣣तो꣡ गिरः꣢꣯ सो꣣मा꣡वि꣢वेशिथ । पु꣣नानो꣡ व꣢ह्ने अद्भुत ॥९७२॥

त्व꣢म् । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । गि꣡रः꣢꣯ । सो꣣म । आ꣢ । वि꣣वेशिथ । पुनानः꣢ । व꣣ह्ने । अद्भुत । अत् । भुत ॥९७२॥

Mantra without Swara
त्वꣳ राजेव सुव्रतो गिरः सोमाविवेशिथ । पुनानो वह्ने अद्भुत ॥

त्वम् । राजा । इव । सुव्रतः । सु । व्रतः । गिरः । सोम । आ । विवेशिथ । पुनानः । वह्ने । अद्भुत । अत् । भुत ॥९७२॥

Samveda - Mantra Number : 972
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वह्ने) जगद्भारस्य वोढः (अद्भुत) आश्चर्यगुणकर्मस्वभाव (सोम) सर्वोत्पादक, सद्भावप्रेरक, ऐश्वर्यशालिन् जगदीश ! (पुनानः) हृदयानि पवित्रीकुर्वन् (त्वम् राजा इव) सम्राडिव (सुव्रतः) सुकर्मा असि। [व्रतमिति कर्मनाम। निघं० २।१।] किञ्च त्वं (गिरः) वेदवाचः (आविवेशिथ) प्रविष्टोऽसि, वेदवाचस्त्वामेवोपास्यत्वेन वर्णयन्तीत्यर्थः, [“यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒” ऋ० १।१६४।३९ इति श्रुतेः] ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
यथा कश्चिद् राजा राष्ट्रोन्नतिकराण्येव कार्याणि करोति तथैव विश्वब्रह्माण्डाधीश्वरस्य परमात्मनः सर्वाणि जगदुत्पत्तिस्थितिप्रलयादीनि कर्माणि शुभानि निःस्वार्थानि परोपकारकराणि च भवन्ति ॥५॥
Subject
अथ परमात्मा कीदृश इति वर्णयति।
Footnote
१. ऋ० ९।२०।५।