Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 971

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣꣬भ्य꣢꣯र्ष बृ꣣ह꣡द्यशो꣢꣯ म꣣घ꣡व꣢द्भ्यो ध्रु꣣व꣢ꣳ र꣣यि꣢म् । इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥९७१॥

अभि꣢ । अ꣣र्ष । बृह꣢त् । य꣡शः꣢꣯ । म꣣घ꣢व꣢द्भ्यः । ध्रु꣣व꣢म् । र꣣यि꣢म् । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥९७१॥

Mantra without Swara
अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवꣳ रयिम् । इषꣳ स्तोतृभ्य आ भर ॥

अभि । अर्ष । बृहत् । यशः । मघवद्भ्यः । ध्रुवम् । रयिम् । इषम् । स्तोतृभ्यः । आ । भर ॥९७१॥

Samveda - Mantra Number : 971
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पवित्रकर्तः परमैश्वर्यवन् जगदीश्वर ! त्वम् (मघवद्भ्यः) दानवद्भ्यो धनिकेभ्यः। [मघमिति धननामधेयं मंहतेर्दानकर्मणः। निरु० १।७।] (ध्रुवं) स्थिरम् (रयिम्) धनम् (बृहत्) महत् (यशः) कीर्तिं च (अभ्यर्ष) प्रापय। अपि च (स्तोतृभ्यः) उपासकेभ्यः (इषम्२) विज्ञानम् इष्टं सुखं च (आ भर) आहर ॥४॥
Essence
दानशीला एव जना धनप्राप्त्यधिकारिणो भवन्ति। किञ्च ये परमात्मानमुपासते ते विवेकिनः सुखिनश्च जायन्ते ॥४॥
Subject
अथ पुनः परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।२०।४। २. ‘इषं विज्ञानम्’ इति य० ३५।१६ भाष्ये ‘इष्टं सुखम्’ इति च ऋ० १।१८४।६ भाष्ये द०। इष गतौ दिवादिः, इषु इच्छायाम्, तुदादिः।