Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 97

1875 Mantra
Devata- अग्निः Rishi- दीर्घतमा औचथ्यः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
पु꣣रु꣡ त्वा꣢ दाशि꣣वा꣡ꣳ वो꣢चे꣣ऽरि꣡र꣢ग्ने꣣ त꣡व꣢ स्वि꣣दा꣢ । तो꣣द꣡स्ये꣢व शर꣣ण꣢꣫ आ म꣣ह꣡स्य꣢ ॥९७॥

पु꣣रु꣢ । त्वा꣣ । दाशिवा꣢न् । वो꣣चे । अरिः꣢ । अ꣣ग्ने । त꣡व꣢꣯ । स्वि꣣त् । आ꣢ । तो꣣द꣡स्य꣢ । इ꣣व शरणे꣢ । आ । म꣣ह꣡स्य꣢ ॥९७॥

Mantra without Swara
पुरु त्वा दाशिवाꣳ वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥

पुरु । त्वा । दाशिवान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ । तोदस्य । इव शरणे । आ । महस्य ॥९७॥

Samveda - Mantra Number : 97
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दाशिवान्) आत्मसमर्पणं कृतवान्, अहम्। दाशृ दाने धातोर्लिटः क्वसुः। ददाशिवान् इति प्राप्ते द्वित्वाभावश्छान्दसः२। (त्वा) त्वां परमात्मानम् (पुरु) बहु (वोचे३) वच्मि, स्तौमि। हे (अग्ने) तेजोमय जगदीश्वर ! त्वम् (अरिः४) ईश्वरः, समर्थः, असि। निरुक्तमतेन गच्छत्यर्थस्य ऋच्छतेरिदं रूपम्। निरु० ५।७।३५। अहम् (तव स्वित्५) तवैव अस्मि, (आ) त्वं मत्समीपे आगच्छ। अहम् (तोदस्य६ इव) अमृतसलिलेन परिपूर्णस्य कूपस्य इव। तुद व्यथने। तुद्यते खन्यते इति तोदः कूपः। (महस्य) महिमान्वितस्य तव (शरणे) आश्रये (आ) आगतोऽस्मि। उभयत्र आ इत्यत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। सेयं वैदिकी शैली ॥७ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—तोदः तुद्यतेः। बहु दाश्वांस्त्वाम् अभिह्वयामि। अरिः अमित्रम् ऋच्छतेः, ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्ट्वैवम् अवक्ष्यत् तोदस्येव शरण आ महस्य, तुदस्येव शरणेऽधि महतः। निरु० ५।७।३५ इति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
हे जगत्पते ! हे परमपितः ! अहं तवैवास्मि। त्वां विहाय क्वान्यत्र गच्छेयम्। तवैव गुणान् गायामि, तुभ्यमेवात्मानं समर्पये। स्वच्छसलिलेन पूर्णः कूप इव त्वम् अमृतमयेनान्दरसेन परिपूर्णोऽसि। तस्मादानन्दरसात् कतिपयान् रसबिन्दून् ममापि हृदये प्रोक्ष्य मां रससिक्तं कुरु। अहं तव शरणागतोऽस्मि ॥१॥
Subject
अथ द्वितीयः प्रपाठकः तत्राद्ये मन्त्रे मनुष्यः परमात्मने स्वात्मानं समर्पयन् तं स्तौति।
Footnote
१. ऋ० १।१५०।१, दाशिवाँ इत्यत्र दाश्वान् इति पाठः। २. चतुर्ष्वपि वेदेषु केवलमत्रैव दाशिवान् इति रूपं प्रयुक्तम्। अन्यत्र ‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।१।१२ इति निपातनात् सिद्धं दाश्वान् इत्येव रूपं प्राप्यते। ३. वच परिभाषणे धातोः वच उम्।’ अ० ७।४।२० इति अङि परतः कृत उमादेशः छन्दस्यन्यत्रापि भवति। तेन वोचे, वोचति, वोचतु, वोचेत्, वोचेय, वोचेम इत्यीदीनि रूपाणि प्रयुक्तानि दृश्यन्ते। ४. अरिः ईश्वरः—इति वि०। अर्तेः अरिः, गच्छन् अन्या देवताः, अन्यदेवताभ्य आहुतीः प्रयच्छन्—इति भ०। अरिः तवैव अर्ता सेवकोऽहम्—इति सा०। अरिः ईश्वरः—इति निरु० ५।७ भाष्ये एतन्मन्त्रव्याख्याने दुर्गस्कन्दौ। ५. स्वित् एवार्थे। तवैव दाशिवान् भवतीत्यर्थः—इति भ०। ६. तोदो गृहस्थ इति निघण्टुटीकायां देवराजयज्वा। तोदस्येव—तुन्नस्येव विदीर्णस्य कस्यचित् श्वभ्रस्य कूपस्योपरि—इति दुर्गः। तुद्यति भृत्यजनान् तैर्वा तोदमात्मन इच्छतीति गृहस्थोऽत्र तोदोऽभिप्रेतः—इति स्कन्दः। तोदशब्देनात्र गृहस्थ उच्यते। गृहस्थस्येव महस्य महतः स्वभूते शरणे गृहे यावत् किञ्चित् सर्वस्वं भवति तद्वदहमपि तव स्वभूतः—इति वि०। तोदो गृहस्थः तुद्यते परिजनैरिति, यद्वा तुदति दधाति धनानि इति। तस्य इव—महतो दातुर्गृ हे आगतो धनार्थी यथात्र स्तौति तद्वत् त्वां वोचे—इति भ०। तोदस्य शिक्षकस्य स्वामिनः—इति सा०। तोदस्येव व्यथकस्येव—इति ऋग्भाष्ये द०। ७. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।