Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 969

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ हि ष्मा꣢꣯ जरि꣣तृ꣢भ्य꣣ आ꣢꣫ वाजं꣣ गो꣡म꣢न्त꣣मि꣡न्व꣢ति । प꣡व꣢मानः सह꣣स्रि꣡ण꣢म् ॥९६९॥

सः । हि । स्म꣣ । जरितृ꣡भ्यः꣢ । आ । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । इ꣡न्व꣢꣯ति । प꣡व꣢꣯मानः । स꣣हस्रि꣡ण꣢म् ॥९६९॥

Mantra without Swara
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् ॥

सः । हि । स्म । जरितृभ्यः । आ । वाजम् । गोमन्तम् । इन्वति । पवमानः । सहस्रिणम् ॥९६९॥

Samveda - Mantra Number : 969
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) चित्तस्य आत्मनश्च शुद्धिमापादयन् (स हि) स खलु सोमः जगदुत्पादकः परमेश्वरः (जरितृभ्यः) स्तोतृभ्यः (सहस्रिणम्)सहस्रसंख्यकम् (गोमन्तम्) प्रशस्तधेनुवागादियुक्तम् (वाजम्) धनम्, यद्वा (गोमन्तम्) अन्तःप्रकाशयुक्तम् (वाजम्) आत्मबलम् (आ इन्वति स्म) आ प्रापयति।[इन्वति गतिकर्मा। निघं० २।१४] ॥२॥
Essence
प्रेयोमार्गिभिः श्रेयोमार्गिभिश्च ध्यातः परमेश्वरस्तेभ्यो मनोवाञ्छितं सर्वं प्रेयः श्रेयश्च प्रयच्छति ॥२॥
Subject
अथ परमात्मन उपकारं वर्णयति।
Footnote
१. ऋ० ९।२०।२।