Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 968

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢ क꣣वि꣢र्दे꣣व꣡वी꣢त꣣ये꣢ऽव्या꣣ वा꣡रे꣢भिरव्यत । सा꣣ह्वा꣡न्विश्वा꣢꣯ अ꣣भि꣡ स्पृधः꣢꣯ ॥९६८॥

प्र꣢ । क꣣विः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । साह्वा꣢न् । वि꣡श्वाः꣢꣯ । अ꣣भि꣡ । स्पृ꣡धः꣢꣯ ॥९६८॥

Mantra without Swara
प्र कविर्देववीतयेऽव्या वारेभिरव्यत । साह्वान्विश्वा अभि स्पृधः ॥

प्र । कविः । देववीतये । देव । वीतये । अव्याः । वारेभिः । अव्यत । साह्वान् । विश्वाः । अभि । स्पृधः ॥९६८॥

Samveda - Mantra Number : 968
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कविः) क्रान्तद्रष्टा मेधावी च एष सोमः रसागारः परमात्मा (देववीतये) दिव्यगुणानां प्रजननाय (अव्याः) शुद्धचित्तवृत्तेः (वारेभिः) विघ्ननिवारणोपायैः प्रणवजपादिभिः (प्र अव्यत) प्राप्यते। [प्रपूर्वाद् अव धातोः कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः।] (साह्वान्) विपदाम् अभिभविता सः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति षह धातोः क्वस्वन्तो निपातः।] (विश्वाः स्पृधः) सर्वान् स्पर्धालून् आन्तरिकान् बाह्यांश्च शत्रून् (अभि) अभिभवति पराजयते। [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः] ॥१॥
Essence
परमात्मोपासनया सर्वे दिव्यगुणाः स्वयमेव प्राप्यन्ते विघ्नकारिणः शत्रवश्च पराजीयन्ते ॥१॥
Subject
तत्रादौ परमात्मप्राप्तिविषयमाह।
Footnote
१. ऋ० ९।२०।२ “अण्या वारेभिरर्षति” इति द्वितीयः पादः।