Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 967

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शु꣡चिः꣢ पाव꣣क꣡ उ꣢च्यते꣣ सो꣡मः꣢ सु꣣तः꣡ स मधु꣢꣯मान् । दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥९६७॥

शु꣡चिः꣢꣯ । पा꣣वकः꣢ । उ꣣च्यते । सो꣡मः꣢꣯ । सु꣣तः꣢ । सः । म꣡धु꣢꣯मान् । दे꣣वावीः꣢ । दे꣣व । अवीः꣢ । अ꣣घशꣳसहा꣢ । अ꣣घशꣳस । हा꣢ ॥९६७॥

Mantra without Swara
शुचिः पावक उच्यते सोमः सुतः स मधुमान् । देवावीरघशꣳसहा ॥

शुचिः । पावकः । उच्यते । सोमः । सुतः । सः । मधुमान् । देवावीः । देव । अवीः । अघशꣳसहा । अघशꣳस । हा ॥९६७॥

Samveda - Mantra Number : 967
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुतः) अभिष्यन्दितः (स सोमः) असौ रसागारः परमेशः (शुचिः) पवित्रः, (पावकः) पवित्रयिता, (मधुमान्) मधुरः, (देवावीः) देवान् दिव्यगुणयुक्तान् विदुषः अवति रक्षतीति तादृशः, (अघशंसहा) पापप्रशंसकानां हन्ता च (उच्यते) कथ्यते ॥७॥
Essence
स्तवनेनोपासनया च प्रसादितः परमेश्वरः परमानन्दसन्दोहं प्रवाहयन्नुपासकैर्मधुरमधुरः पापानामुन्मूलयिता चानुभूयते ॥७॥ अस्मिन् खण्डे परमात्मनः स्वरूपवर्णनपुरस्सरं तत्स्तुतिप्रार्थनोपासनाया ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ परमेश्वरः कीदृशोऽस्तीत्याह।
Footnote
१. ऋ० ९।२४।७ ‘सुतः स मधुमान्’ इत्यत्र ‘सु॒त॒स्य मध्वः॑’।