Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 966

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢स्व वृत्र꣣ह꣡न्त꣢म उ꣣क्थे꣡भि꣢रनु꣣मा꣡द्यः꣢ । शु꣡चिः꣢ पाव꣣को꣡ अद्भु꣢꣯तः ॥९६६॥

प꣡व꣢꣯स्व । वृ꣣त्र꣡हन्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । उ꣣क्थे꣡भिः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । शु꣡चिः꣢꣯ । पा꣣व꣢कः । अ꣡द्भु꣢꣯तः । अत् । भुतः ॥९६६॥

Mantra without Swara
पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । शुचिः पावको अद्भुतः ॥

पवस्व । वृत्रहन्तमः । वृत्र । हन्तमः । उक्थेभिः । अनुमाद्यः । अनु । माद्यः । शुचिः । पावकः । अद्भुतः । अत् । भुतः ॥९६६॥

Samveda - Mantra Number : 966
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! हे रसागार परमाह्लादक जगदाधार परमेश ! (वृत्रहन्तमः) पापानामतिशयेन हन्ता, (उक्थेभिः) स्तोत्रैः (अनुमाद्यः) प्रसादनीयः, (शुचिः) पवित्रः, (पावकः) पवित्रयिता, (अद्भुतः) आश्चर्यकरगुणकर्म- स्वभावः त्वम् (पवस्व) उपासकानस्मान् पुनीहि ॥६॥
Essence
यः स्वयं पापानां हन्तृतमः पवित्रोऽद्भुतोऽस्ति सोऽन्यानपि निष्पापान् पवित्रान्तःकरणानद्भुतांश्च कुतो न कुर्यात् ? ॥६॥
Subject
अथ पुनः परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।२४।६ ‘वृत्रहन्तमो॒क्थेभि॑’ इति पाठः।