Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 965

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ सो꣢म नृ꣣मा꣡द꣢नः꣣ प꣡व꣢स्व चर्षणी꣣धृ꣡तिः꣢ । स꣢स्नि꣣र्यो꣡ अ꣢नु꣣मा꣡द्यः꣢ ॥९६५॥

त्वम् । सो꣣म । नृमा꣡द꣢नः । नृ꣣ । मा꣡द꣢꣯नः । प꣡व꣢꣯स्व । च꣣र्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ । स꣡स्निः꣢꣯ । यः । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ ॥९६५॥

Mantra without Swara
त्वꣳ सोम नृमादनः पवस्व चर्षणीधृतिः । सस्निर्यो अनुमाद्यः ॥

त्वम् । सोम । नृमादनः । नृ । मादनः । पवस्व । चर्षणीधृतिः । चर्षणि । धृतिः । सस्निः । यः । अनुमाद्यः । अनु । माद्यः ॥९६५॥

Samveda - Mantra Number : 965
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार, शुभकर्मसु प्रेरक, चन्द्रवदाह्लादक, सर्वान्तर्यामिन् परमपितर्जगदीश ! (नृमादनः) नॄन् मनुष्यान् मादयति हर्षयतीति तथाविध (चर्षणीधृतिः) मनुष्याणां धारयिता (त्वम् पवस्व) अस्मान् पवित्रीकुरु, (यः) यः त्वम् (सस्निः) सर्वथा शुद्धः। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन किन् प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वम्।] (अनुमाद्यः) अनुनयेन प्रसादनीयश्च असि ॥५॥
Essence
यस्मिन् विशुद्धे परमात्मनि कल्मषस्य कणिकापि नास्ति स उपासकान् निर्मलान् कृत्वा पूतेनानन्दरसेन परिप्रीणाति ॥५॥
Subject
अथ पुनरपि परमात्मविषयमाह।
Footnote
१. ऋ० ९।२४।४ ‘चर्षणी॒सहे॑’ इति पाठः।