Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 964

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣢न्दो꣣ य꣡दद्रि꣢꣯भिः सु꣣तः꣢ प꣣वि꣡त्रं꣢ परि꣣दी꣡य꣢से । अ꣢र꣣मि꣡न्द्र꣢स्य꣣ धा꣡म्ने꣢ ॥९६४॥

इ꣡न्दो꣢꣯ । यत् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुतः꣢ । प꣣वि꣡त्र꣢म् । प꣣रिदी꣡य꣢से । प꣣रि । दी꣡य꣢꣯से । अ꣡र꣢꣯म् । इ꣡न्द्र꣢꣯स्य । धा꣡म्ने꣢꣯ ॥९६४॥

Mantra without Swara
इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे । अरमिन्द्रस्य धाम्ने ॥

इन्दो । यत् । अद्रिभिः । अ । द्रिभिः । सुतः । पवित्रम् । परिदीयसे । परि । दीयसे । अरम् । इन्द्रस्य । धाम्ने ॥९६४॥

Samveda - Mantra Number : 964
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) रसागार, चन्द्रवदाह्लादक परमेश ! (यत्) यदा (अद्रिभिः) पाषाणैरिव ध्यानैः (सुतः) अभिषुतः त्वम् (पवित्रम्) परिपूतं हृदयदेशम् (परि दीयसे) परिगच्छसि, व्याप्नोषि। [दीयते गतिकर्मा। निघं० २।१४।] तदा (इन्द्रस्य) जीवात्मनः (धाम्ने) तेजसे,जीवात्मानं तेजसा दीपयितुमिति भावः (अरम्) पर्याप्तं भवसि ॥४॥
Essence
ध्यानेन प्रकटीकृतः परमेश्वरो जीवात्मानं तेजसा ब्रह्मवर्चसेन चानुप्राणयति ॥४॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।२४।५, ‘परिदीयसे’ इत्यत्र ‘परि॒धाव॑सि’ इति पाठः।