Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 963

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣡ प꣢वमान धन्वसि꣣ सो꣡मेन्द्रा꣢꣯य꣣ मा꣡द꣢नः । नृ꣡भि꣢र्य꣣तो꣡ वि नी꣢꣯यसे ॥९६३॥

प्र꣢ । प꣣वमान । धन्वसि । सो꣡म꣢꣯ । इ꣡न्द्रा꣢꣯य । मा꣡द꣢꣯नः । नृ꣡भिः꣢꣯ । य꣣तः꣢ । वि । नी꣣यसे ॥९६३॥

Mantra without Swara
प्र पवमान धन्वसि सोमेन्द्राय मादनः । नृभिर्यतो वि नीयसे ॥

प्र । पवमान । धन्वसि । सोम । इन्द्राय । मादनः । नृभिः । यतः । वि । नीयसे ॥९६३॥

Samveda - Mantra Number : 963
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रतां कुर्वाण (सोम)आनन्दरसागार परमात्मन् ! (इन्द्राय) जीवात्मने (मादनः) आनन्दकरः त्वम् (प्र धन्वसि) तं प्राप्नोषि। (नृभिः) उपासकैः नरैः (यतः२) गृहीतः, ध्यातः त्वम् (वि नीयसे) विशेषेण हृदयदेशं प्राप्यसे ॥३॥
Essence
अरण्योर्व्याप्तोऽप्यग्निर्यथाऽऽविर्भावाय मन्थनमपेक्षते तथैव हृदये जीवात्मनि च पूर्वत एव विद्यमानोऽपि परमेश्वर आविर्भावाय ध्यानमपेक्षते ॥३॥
Subject
अथ परमात्मानं सम्बोधयति।
Footnote
१. ऋ० ९।२४।३, ‘मादनः’ इत्यत्र ‘पात॑वे’ इति पाठः। २. यतः गृहीतः इति सा०। यतः नियतः संयत इति यावत्। अथवा यमु बन्धने, ऋत्विग्भिर्बद्धः सोमवहनेन—इति वि०।