Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 961

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣡ सोमा꣢꣯सो अधन्विषुः꣣ प꣡व꣢मानास꣣ इ꣡न्द꣢वः । श्री꣣णाना꣢ अ꣣प्सु꣡ वृ꣢ञ्जते ॥९६१॥

प्र꣢ । सो꣡मा꣢꣯सः । अ꣣धन्विषुः । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः । श्री꣣णानाः꣢ । अ꣣प्सु꣢ । वृ꣣ञ्जते ॥९६१॥

Mantra without Swara
प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु वृञ्जते ॥

प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्सु । वृञ्जते ॥९६१॥

Samveda - Mantra Number : 961
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानासः) पवित्रताप्रदायकाः (इन्दवः) दीप्ताः, रसेन क्लेदकाश्च (सोमासः) ब्रह्मानन्दरसाः (अधन्विषुः) जीवात्मानमुपगताः सन्ति। [धन्वतिः गतिकर्मा। निघं० २।१४।] ते (श्रीणानाः२) तं जीवात्मानं परिपचन्तः (अप्सु) तेन क्रियमाणेषु कर्मसु (वृञ्जते) स्वात्मानं परित्यजन्ति, व्याप्नुवन्तीत्यर्थः। [वृजी वर्जने, अदादिः] ॥१॥
Essence
ब्रह्मणः सकाशात् प्राप्तैरानन्दरसैः परिपक्वः पूर्णतां च गतो मनुष्यः शुभान्येव कर्माण्याचरति नाशुभानि ॥१॥
Subject
तत्रादौ ब्रह्मानन्दरूपान् सोमरसान् वर्णयति।
Footnote
१. ऋ० ९।२४।१, ‘अ॒प्सु मृ॑ज्जत’ इति पाठः। २. श्रीणानाः श्रीणनं मिश्रणं, मिश्रयमाणाः—इति वि०।