Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 96

1875 Mantra
Devata- अग्निः Rishi- प्रस्कण्वः काण्वः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त्व꣡म꣢ग्ने꣣ व꣡सू꣢ꣳरि꣣ह꣢ रु꣣द्रा꣡ꣳ आ꣢दि꣣त्या꣢ꣳ उ꣣त꣢ । य꣡जा꣢ स्वध्व꣣रं꣢꣫ जनं꣣ म꣡नु꣢जातं घृत꣣प्रु꣡ष꣢म् ॥९६॥

त्व꣢म् । अ꣣ग्ने । व꣡सू꣢꣯न् । इ꣣ह꣢ । रु꣣द्रा꣢न् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । उ꣣त꣢ । य꣡ज꣢꣯ । स्व꣣ध्वर꣢म् । सु꣣ । अध्वर꣢म् । ज꣡न꣢꣯म् । म꣡नु꣢꣯जातम् । म꣡नु꣢꣯ । जा꣣तम् । घृ꣣तप्रु꣡ष꣢म् । घृ꣣त । प्रु꣡ष꣢꣯म् ॥९६॥

Mantra without Swara
त्वमग्ने वसूꣳरिह रुद्राꣳ आदित्याꣳ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥

त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । आ । दित्यान् । उत । यज । स्वध्वरम् । सु । अध्वरम् । जनम् । मनुजातम् । मनु । जातम् । घृतप्रुषम् । घृत । प्रुषम् ॥९६॥

Samveda - Mantra Number : 96
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) परमात्मन् ! (त्वम्) जगदीश्वरः (इह) अस्माकं राष्ट्रे (वसून्) वासयन्ति धनधान्यादिसम्पत्त्या इतरान् वर्णान् इति वसवः तान् उत्कृष्टवैश्यान्, (रुद्रान्) रोदयन्ति शत्रून् इति रुद्राः वीरक्षत्रियाः तान्, (आदित्यान्) प्रकाशितसूर्यकिरणवद् विद्याप्रकाशयुक्तान् ब्राह्मणान्, (उत) अपि च (स्वध्वरम्) शोभनयज्ञम्। अत्र नञ्सुभ्याम्। अ० ६।२।११९ इत्युत्तरपदस्यान्तोदात्तत्वम्। (मनुजातम्) मनवे मनुष्यसमाजाय तत्कल्याणायेति यावत् जातं गृहीतजन्मानम्। अत्र मन्यतेः स्वृ० उ० १।१० इति उः प्रत्ययः, निच्च। तस्य नित्त्वान्मनुशब्द आद्युदात्तः। समासे च तस्य चतुर्थ्यन्तत्वात् क्ते च, अ० ६।२।४५ इति पूर्वपदस्य प्रकृतिस्वरः। (घृतप्रुषम्) घृतम् आज्यादिकं प्रुष्णाति अग्नौ सिञ्चति सत्पात्रेषु वा वर्षतीति तम् (जनम्) पुत्रं (यज) प्रदेहि। यजतिरत्र देवपूजासङ्गतिकरणदानेष्विति पाठाद् दानार्थः। संहितायां द्व्यचोऽतस्तिङः अ० ६।३।१३५ इति दीर्घः। वसूँ, रुद्राँ, आदित्याँ इति सर्वत्र दीर्घादटि समानपादे। अ० ८।३।९ इति नकारस्य रुत्वम्, आतोऽटि नित्यम्। अ० ८।३।–३ इति पूर्वस्यानुनासिकः। अथ वसुरुद्रादित्यानाम् उक्तार्थेषु प्रमाणम्। वसवो वैश्याः, अ॒स्मे ध॑त्त वसवो॒ वसू॑नि॒। य० ८।१८ इति तत्सकाशाद् वसुप्रार्थनात्। रुद्राः क्षत्रियाः, अ॒न्यं ते॑ अ॒स्मन्निव॑पन्तु सेनाः॑। ऋ० २।३३।११, इमा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑। अषा॑ळहाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥ ऋ० ७।४६।१ इत्यादिरूपेण तेषां सेनानीत्वधनुर्धरत्वादिवर्णनात्। आदित्याः ब्राह्मणाः, एते खलु वादित्या यद् ब्राह्मणाः। तै० सं० १।१।९।८ इति प्रामाण्यात् ॥६॥२
Essence
हे जगत्साम्राज्यसञ्चालक देवाधिदेव परमपितः परमेश्वर ! ईदृशीं कृपां कुरु यदस्माकं राष्ट्रे धनदानेन सर्वान् वर्णाश्रमान् पालयन्तः सद्वैश्याः, युद्धेषु शत्रून् विजेतारो वीराः क्षत्रियाः, आदित्यवज्ज्ञानप्रकाशेन पूर्णा विपश्चिद्वरा ब्राह्मणाश्च स्युः। सर्वे च विविधानां परोपकारयज्ञानामनुष्ठातारं, मानवसमाजस्य कल्याण- कर्तारम्, अग्निहोत्रिणम्, अतिथीनां घृतादिना सत्कर्तारं च सुयोग्यं सन्तानं प्राप्नुयुः ॥६॥ अत्र सोमाग्निवरुणविष्णुप्रभृतिर्विविधनामभिः परमेश्वरस्य स्मरणात्, तदाश्रयेण योगिनामङ्गिरसामुत्कर्षप्राप्तिवर्णनात्, परमेश्वरगुणवर्णन- पुरस्सरं राक्षससंहारार्थं राष्ट्रोत्थानार्थं च प्रार्थनाकरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम्। इति प्रथमे प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तश्चायं प्रथमः प्रपाठकः ॥ इति प्रथमेऽध्याये दशमः खण्डः ॥
Subject
अथ राष्ट्रवासिनः परमात्माग्निं प्रार्थयन्ते।
Footnote
१. ऋ० १।४५।१, देवता अग्निर्देवाश्च। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः। तत्र अग्निशब्देन विद्युद्वद् वर्तमानो विद्वान्, वसुशब्देन कृतचतुर्विंशतिवर्षब्रह्मचर्याः पण्डिताः, रुद्रशब्देन आचरितचतुश्चत्वारिंशद्वर्षब्रह्मचर्या महाबला विद्वांसः, आदित्यशब्देन च समाचरिताष्टचत्वारिंशत्संवत्सरब्रह्मचर्याखण्डितव्रता महाविद्वांसो गृहीताः।