Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 958

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानस्य विश्ववि꣣त्प्र꣢ ते꣣ स꣡र्गा꣢ असृक्षत । सू꣡र्य꣢स्येव꣣ न꣢ र꣣श्म꣡यः꣢ ॥९५८॥

प꣡वमा꣢꣯नस्य । वि꣣श्ववित् । विश्व । वित् । प्र꣢ । ते꣣ । स꣡र्गाः꣢꣯ । अ꣣सृक्षत । सू꣡र्य꣢꣯स्य । इ꣣व । न꣢ । र꣣श्म꣡यः꣢ ॥९५८॥

Mantra without Swara
पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत । सूर्यस्येव न रश्मयः ॥

पवमानस्य । विश्ववित् । विश्व । वित् । प्र । ते । सर्गाः । असृक्षत । सूर्यस्य । इव । न । रश्मयः ॥९५८॥

Samveda - Mantra Number : 958
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विश्ववित्) सर्वज्ञ, सर्वान्तर्यामिन् जगदीश्वर ! [विश्वं वेत्ति विश्वस्मिन् विद्यते इति वा विश्ववित्।] (पवमानस्य) पवित्रतां प्रयच्छतः (ते) तव (सर्गाः) पावन्य आनन्दधाराः (न२) सम्प्रति (सूर्यस्य) आदित्यस्य (रश्मयः इव) किरणाः इव (प्र असृक्षत) प्र सृज्यन्ते ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
परमात्मनः सर्वज्ञतां सर्वव्यापकतां च विचार्य मनुष्यैः पापविचारेभ्यः पापकर्मभ्यश्च स्वात्मानमपनीय सदा पवित्रान्तःकरणैर्भाव्यम् ॥१॥
Subject
तत्रादौ परमात्मविषयः प्रोच्यते।
Footnote
१. ऋ० ९।६४।७। २. न सम्प्रत्यर्थे—इति सा०।