Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 956

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
त्वं꣢ नृ꣣च꣡क्षा꣢ असि सोम वि꣣श्व꣢तः꣣ प꣡व꣢मान वृषभ꣣ ता꣡ वि धा꣢꣯वसि । स꣡ नः꣢ पवस्व꣣ व꣡सु꣢म꣣द्धि꣡र꣢ण्यवद्व꣣य꣡ꣳ स्या꣢म꣣ भु꣡व꣢नेषु जी꣣व꣡से꣢ ॥९५६॥

त्व꣢म् । नृ꣣च꣡क्षाः꣢ । नृ꣣ । च꣡क्षाः꣢꣯ । अ꣣सि । सोम । विश्व꣡तः꣢ । प꣡व꣢꣯मान । वृ꣣षभः । ता꣢ । वि । धा꣣वसि । सः꣢ । नः꣣ । पवस्व । व꣡सु꣢꣯मत् । हि꣡र꣢꣯ण्यवत् । व꣣य꣢म् । स्या꣣म । भु꣡व꣢꣯नेषु । जी꣣व꣡से꣢ । ॥९५६॥

Mantra without Swara
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयꣳ स्याम भुवनेषु जीवसे ॥

त्वम् । नृचक्षाः । नृ । चक्षाः । असि । सोम । विश्वतः । पवमान । वृषभः । ता । वि । धावसि । सः । नः । पवस्व । वसुमत् । हिरण्यवत् । वयम् । स्याम । भुवनेषु । जीवसे । ॥९५६॥

Samveda - Mantra Number : 956
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सर्वजगदुत्पादक शुभगुणप्रेरक परमात्मन् ! (त्वम् विश्वतः) सर्वतः (नृचक्षाः) सर्वेषां नृणां द्रष्टा (असि) वर्तसे। हे (पवमान) पवित्रकर्तः, (वृषभ) सुखवर्षक ! त्वम् (ता) तानि दृश्यमानानि सर्वाणि वस्तूनि (वि धावसि) व्याप्नोषि। (सः) तादृशः त्वम्(वसुमत्) वासकधनयुक्तम्, (हिरण्यवत्) सुवर्णयुक्तं ज्योतिर्युक्तं वर्चोयुक्तं यशोयुक्तं च ऐश्वर्यम्। [ज्योतिर्वै हिरण्यम्। तां० ब्रा० ६।६।१०, वर्चो वै हिरण्यम्। तै० ब्रा० १।८।९।१, यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८।] (नः) अस्मभ्यम् (पवस्व) प्रापय। (वयम् भुवनेषु) भूलोकेषु (जीवसे) जीवितुम् (स्याम) प्रभवेम ॥२॥
Essence
यः परमेश्वरः सर्वद्रष्टा सर्वान्तर्यामी धनधान्यरजतसुवर्णराज्यादिप्रदो ज्योतिष्प्रदो यशस्प्रद आरोग्यप्रदो दीर्घायुष्प्रदश्चास्ति तमुपास्य तन्मार्गप्रदर्शने च वयं सदैव वर्तेमहि ॥२॥
Subject
अथ पुनः परमात्मन एव विषयमाह।
Footnote
१. ऋ० ९।८६।३८।