Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 955

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥

गो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥

Mantra without Swara
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥

गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥

Samveda - Mantra Number : 955
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् ऐश्वर्यवर्षक परमात्मन् ! (गोवित्) गवां लम्भकः, (वसुवित्) धनानां लम्भकः, (हिरण्यवित्) सुवर्णानां लम्भकश्च त्वम् (पवस्व) अस्मान् पुनीहि। (रेतोधाः) वीर्यप्रदाता त्वम् (भुवनेषु) लोकेषु (अर्पितः) व्याप्तः असि। हे (सोम)सर्वोत्पादक परमात्मन् ! (त्वम् सुवीरः) श्रेष्ठानां वीराणां प्रापकः (विश्ववित्) सर्वज्ञः च (असि) वर्तसे।(तं त्वा) तादृशं त्वाम् (इमे) एते (नरः) उपासकाः जनाः (गिरा) स्तुतिवाचा (उप आसते) उपतिष्ठन्ते ॥१॥
Essence
जगदीश्वरेणैवास्माकमुपयोगाय बहुमूल्याः सर्वे पदार्था निश्शुल्कं प्रदत्ताः सन्ति। एतावदुपकारकः स कृतज्ञतयाऽस्माभिः कुतो न स्मरणीयः ॥१॥
Subject
अथ सोमनाम्ना परमात्मविषयो वर्ण्यते।
Footnote
१. ऋ० ९।८६।३९ ‘नर’ इत्यत्र ‘विप्रा’ इति पाठः।