Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 953

1875 Mantra
Devata- इन्द्रः Rishi- पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा Chhand- बृहती Swara- मध्यमः
Mantra with Swara
इ꣡न्द्र꣢ ज꣣ठ꣢रं꣣ न꣢व्यं꣣ न꣢ पृ꣣ण꣢स्व꣣ म꣡धो꣢र्दि꣣वो꣢ न । अ꣣स्य꣢ सु꣣त꣢स्य꣣ स्वा꣢꣫३र्नो꣡प꣢ त्वा꣣ म꣡दाः꣢ सु꣣वा꣡चो꣢ अस्थुः ॥९५३॥

इ꣡न्द्र꣢꣯ । ज꣣ठ꣡र꣢म् । न꣡व्य꣢꣯म् । न । पृ꣣ण꣡स्व꣢ । म꣡धोः꣢꣯ । दि꣣वः꣢ । न । अ꣣स्य꣢ । सु꣣त꣡स्य꣢ । स्वः꣢ । न । उ꣡प꣢꣯ । त्वा꣣ । म꣡दाः꣢꣯ । सु꣣वा꣡चः꣢ । सु꣣ । वा꣡चः꣢꣯ । अ꣣स्थुः ॥९५३॥

Mantra without Swara
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥

इन्द्र । जठरम् । नव्यम् । न । पृणस्व । मधोः । दिवः । न । अस्य । सुतस्य । स्वः । न । उप । त्वा । मदाः । सुवाचः । सु । वाचः । अस्थुः ॥९५३॥

Samveda - Mantra Number : 953
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् ! (दिवः न मधोः) अन्तरिक्षादागतस्य मधुरस्य वृष्टिजलस्य इव मधुरस्य ब्रह्मानन्दरसस्य भागेन त्वम् सम्प्रति (नव्यं न) नवीनमिव (जठरम्) स्वकीयमुदरम्, स्वात्मानमित्यर्थः (पृणस्व) तर्पय। (स्वः न) सूर्यादिव जगदीश्वरात् (सुतस्य) अभिषुतस्य (अस्य) ब्रह्मानन्दरसस्य (सुवाचः) शोभना वाचः स्तुतिगिरः यैः प्रेर्यन्ते तादृशाः (मदाः) तृप्तयः (त्वा उप अस्थुः) त्वाम् उपस्थिताः भवन्तु ॥२॥ अत्रोपमालङ्कारः। ‘नव्यं न’ इत्युत्प्रेक्षा। नित्यः पुरातनोऽप्यात्मा नूतनं देहं संधार्य नूतनमिव जायते ॥२॥
Essence
मनुष्यस्यात्मा ब्रह्मानन्दरसेन तृप्तो भूत्वा स्वयं सुखशान्तिमधिगम्य परेभ्योऽपि प्रयच्छेत् ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. अथ० २।५।२, ‘नव्यं न’ इत्यत्र ‘न॒व्यो न’, ‘स्वा३र्नोप’ इत्यत्र च ‘स्वर्णोप’ इति पाठः।